SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ( G अध्यात्ममारः OOK ॥३३॥ फलपर्यन्तः परिदृष्टोयदात्मनः । नाऽऽत्मनो विकृतिं दत्तं तदेषा नयकल्पना । पुद्गल कर्मस्था विक्रियाऽऽत्मनि बालिशै-रुपचर्यते । आत्मनः कल्पनाऽतीतं रूपमकन्पक एव पश्यति । कल्पनामूढः प्राणी विपरीतदर्शनं करोति । शुद्धस्वरूपम्यान्मनो ध्यानं परमात्मध्यानं । शरीरादिमिवर्णिते वीतरागस्य वास्तवी नोपवर्णना । व्यवहार निश्चय स्तुतिः । मुख्यगौण धर्माणां विवेकेन स्तुतिः कार्या । वस्तुस्पर्शितया शुभकल्पना न्याय्याऽपेक्षया । पुण्यपापरहितमात्मत्तत्वम् । आश्रवसंवर भिन्न आत्मा। मिथ्यात्वादिभावाश्रवः । भावनादिधर्मा भावसंवरः । फलभेदादाश्रव-संवस्योर्मेंदः । व्यवहारविमूढस्तु परप्राणिगतपर्यायान् बाह्यरूपान् हिंसाऽहिंसादीन् आश्रवसंवरत्वेन मन्यते, बाह्यक्रियारतमना निश्चयस्यगूढतत्वं न पश्यति । भावापेक्षया यावन्त आश्वास्तावन्तः परिश्रवाः । मावानां वैचित्र्यादात्मैवाश्रव-संवरौ । अज्ञानाद् अध्यते न तु विषयैः ज्ञानाद्विमुच्यते न तु शास्त्रादिपुद्गलात् । शास्त्रादिकं व्यवहारतः संवराङ्गम् । योगाशत आश्रवः उपयोगांशतः संवरः। सम्यक्त्व-प्राप्त्यनन्तरं ज्ञानधारा शुद्धैव । उपयोगयोगधारयोः सर्वतः शुद्धयोः सत्योः सर्वसंवरः । यद् यावच्च स्थिरत्वं संवरः, यद् यावद् योग-चाञ्चल्यं आश्रवः । संमारि-सिद्धयोः शुद्धनयतो न भेदः । शुद्धज्ञानसमन्वितं द्वादविधं सत्तपः । यत्र कषायरोधः, ब्रह्मचर्य, जिनध्यानं तत्तपःशद्धं । निपुणज्ञान-तादात्म्यरूपं तपो निरापदं नान्यत् । कर्मातापकरं ज्ञानं तपः । ज्ञानतपो युक्तः तत्क्षणेनैव सर्व कर्मक्षयाय । ज्ञानयोगस्तपः शुद्धम् । ज्ञानमय शुद्ध तपस्वी भावनिर्जरा । कर्मात्म ॥३३॥ Jain Education Inter For Private & Personal use only www.inbrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy