SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-1 सारः ॥३.३॥ टीका:- य इदं तत्त्वं-कदाग्रहत्यागाऽत्यागाभ्यां कृतगुणदोषात्मकमिदं तत्वं विदन्-जानन् , उदारबुद्धिः' मागसारस्वीकारपरिहारसमर्थविचारशक्तिमान् , 'तृणवदसद्ग्रहं तृणतुल्यं कदाग्रह, जहातित्यजति, अतो यथा गुणाऽनुरागिणी कुलजा योषित-स्त्री, दयितं-पतिं न जहाति, तथैनं कदाग्रहत्यागिनं महात्मानं यशःश्री-कीर्तिलक्ष्मीनं जहातीति ॥ २२ ॥ ____ इत्याचार्यश्रीमद्विजयलन्धिसूरीश्वरपट्टधराचार्यश्रीमविजयभुवनतिलकसूरीश्वरपट्टधरभद्रङ्करसूरिणाकृतायामध्यात्मसारग्रन्थे भुवनतिलकाऽऽख्यायां टीकायां कदाग्रहत्यागनामकश्चतुर्दशोऽधिकारः समाप्तः ४६४ । - अथ योगस्वरूपनामा पञ्चदशोऽधिकारः - .. - योगस्वरूपस्य निरूपणम् - 'असद्ग्रहव्ययाद्वान्त-मिथ्यात्वविषविपुषः । सम्यक्त्वशालिनोऽध्यात्मशुद्धेर्योगः प्रसिद्धयति ॥ १ ॥ टीकाः-पूर्वमसद्ग्रहत्यागस्ततः परं मिध्यात्वनामकविषविन्दूना वमनं भवति ततः परं सम्यग्दर्शनं भवति कमतः, अतः सम्यकूत्ववतो. याऽध्यात्मशुद्धिः-शुद्धात्मभावः, ततोऽध्यात्मशुद्धेः-अध्यात्म- शुद्धिप्रयुक्तो योगः-मोक्षमार्गः प्रसिद्धो भवतीति ॥ १ ॥ ॥३०३॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy