SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥३०२|| हान् , 'विद्या-अभ्याससाध्यज्ञान विशेषः, विवेकः- सदसदादिपदार्थपृथक्करणशक्तिविशेषः, पिनयोशास्त्रानुसारिनमनवृत्तिः, विशुद्धिः-विशिष्टात्मादिशुद्धिः, 'सिद्धान्तवालम्यं सर्वज्ञप्रणीतसिद्धान्तप्रियता, 'उदारता'-कृपणताया अभावपूर्वकदानपरिणामः, इत्यादयः सर्वे गुणा विनाश यान्ति-गच्छन्तीति ॥२०॥ - कवाग्रहिणां कः प्रियः ?, केषु मैत्री १, का स्थितिः ? - ___'स्वार्थः प्रियो नो गुणवांस्तु कश्चिन्मूढेषु मैत्रो न तु तत्त्ववित्सु । श्रसद्ग्रहापादितविश्रमाणां, स्थितिः किलासावधमाधमानाम् ॥२१॥ टीका:- कदाग्रहिणां स्वार्थ:-स्वेच्छितकार्यविशेषः प्रियो भवति, परन्तु कश्चिद् गुणवानात्मा प्रियो । न भवति, मृठेषु-कर्तव्याकर्तव्यमोहमढेषु-मुर्खजनेषु मैत्री-मित्रता भवति, तत्त्वज्ञानिषु न मित्रत्वं, असद्ग्रहहेतुना आपादित:-प्रापितः स्वसाधनाया इतिश्रीरूपो विश्रमो-विरामो येषां, ते 'अधमाऽधमानां' अधमेभ्योऽप्यधमाना किलाऽसौ-स्थितिरेताहशी स्थितिर्विचित्रा वर्तते इति ॥ २१ ॥ - कदाग्रहत्यागविषयक उपसंहारः - 'इदं विदस्तत्त्वमुदारबुद्धि-रसद्ग्रहं यस्तृणवजहाति । जहाति नैनं कुलजेव योषिद्गुणानुरक्ता दयितं यशःश्रीः ॥२२॥ ॥३०२॥ Jain Education Interne Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy