________________
अध्यात्म
मार:
॥२९८॥
रस्नाः काकाः 'प्रसभं मिष्टाननिष्ठा नो भवन्ति' =बलादपि मिष्टान्नं प्रति रुचिमन्तो नो भवन्ति ॥ ११ ॥
- यत्र युक्तिस्तत्रमतिं न, यत्र च मतिस्तत्र युक्ति नियुङ्क्ते सः - 'नियोजयत्येव मतिं न युक्तो, युक्ति मतो यः प्रसभं नियुङ्कते ।
सद्ग्रहादेव न कस्य हास्योऽजले घटारोपणमादधानः ॥१२॥ ___टीकाः-असद्ग्रहादेव शास्त्रयुक्तौ स्वमति न नियोजयति, मतौ-स्वबुद्धौ च यदूचितं तदनुसारेण येन केन प्रकारेण शास्त्रयुक्ति नियोजयितु यः प्रसभं प्रयतते, सोऽजले-जलरहितमरुमरीचिकायां जलभरणाय घटस्य स्थापनमादधानः, कस्य हसनयोग्यो न स्यात् ? अपि तु स्यादेवेति ॥ १२ ॥
___ - असद्ग्रहगृहीतस्य दीयमानं श्रुतं न प्रशस्यम् - 'असद्ग्रहो यस्य गतो न नाशं, न दीयमानं श्रुतमस्य शस्यम् । न नाम वैकल्यकलङ्कितस्य, प्रौढा प्रदातु घटते नृपश्रीः ॥१३॥
टीकाः-यस्याऽमद्ग्रहोऽसन नार्थाद् विद्यते, तस्य कदाग्रहिणो दीयमानं शास्त्रसत्कं श्रुतं न श्रेयस्कर, शरीरस्याऽवयव गतवैकल्येन-विकलाङ्गत्वेन कलङ्कितस्य राजकुमारस्य प्रोढा समृद्धा, राजश्रीः, प्रदातु सर्वथा न नाम घटते-नौचित्यमञ्चति ॥ १३ ॥
॥२९८।।
Jain Education Internation
For Private & Personal Use Only
Al
ww.jainelibrary.org