________________
॥२९॥
'कुतर्कदात्रेण लुनाति तत्त्व-वल्ली रसात् सिथति दोपवृक्षम् ।
क्षिपत्यधः स्वादुफलं शमाख्य-मसदग्रहच्छन्नमतिर्मनुष्यः ॥६॥ ___टीकाः-'असद्ग्रहच्छन्नमतिर्मनुष्यः'=कदाग्रहाच्छादिता (नष्टा) मतिर्यस्य, स मनुष्यः, 'कुतकात्रण तत्वबन्ली लुनाति' कुतर्कनामकदात्रद्वारा तत्वरूपलतां छिनत्ति, कुतर्कीभूत्वा रहस्योच्छेदकारी भवति, रसात सिञ्चति-दोषवृक्षं प्रान्तरमलिनभावरस जलात , दोषरूपवृक्षं सिथति मलिनभावरूप. रसद्वारा दोषवृद्धिमान् भवति, 'शमाख्यं स्वादुफलमधः क्षिपति' शमनामकं सुमधुरस्वादविशिष्टं फलमधस्ताद क्षिपति, अर्थात् कदाग्रही मनुष्यः, भ्रष्टमतिको भूत्वा कुतर्कनिमित्तद्वारा तत्त्वश्रद्धाहीनः सन् , रसापेक्षया दोषवृद्धिमान् , प्रशमनामकफलशून्पो भवति ॥ ६ ॥ - कदाग्रहनामकपाषाणमये चिते सद्भावविगुरुयोधौ न भवतः -
श्रसदग्रहणावमये हि चित्ते, न काऽपि सद्भावरसप्रवेशः।
इहाकुरश्चित्तविशुद्धबोधः, सिद्धांतवाचां वत कोऽपराधः?॥७॥ टीका:-'असद्ग्रहग्रावमये हि चित्ते' निश्चयतः कदाग्रहरूपपाषाणघटिते चित्ते 'न क्वापि सद्भाव- रसप्रवेशः' कुत्रचिदपि तादृशे प्रस्तरघटिते चित्ते शोमनभावरूपधर्मभ्यानरूपजलस्य प्रवेशो न, 'इहा
॥२९५||
Jain Education Interat
For Private & Personal use only
www.jainelibrary.org