SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२८८॥ Jain Education Internatio :-भवतत्कारणयोर्विरोधिमोक्षतत्कारणनिरूपणम्'भवकारण रागादि- प्रतिपक्षमदः खलु 1 तद् विपक्षस्य मोक्षस्य कारणं घटतेतराम् ॥ ८३ ॥ टीका :- यदि संसारोऽस्ति, तस्य च रागादिमिथ्यादर्शनादीनि कारणानि सन्ति, यदा च संसारस्य विरोधी मोक्षोऽप्यस्ति तदा संसारकारण मिथ्यादर्शनादिविरुद्धेन मोक्षकारणेन भवितव्यम्, तत्कारणं च सम्यग्दर्शनादिरत्नत्रयमेवेति यथा रोगतत्कारण कुपथ्यादिविपक्षारोग्यतत्कारण सुपथ्योषधाद्यप्यत्र चिन्त्यम् ॥ ८३ ॥ - पूर्व सेवाSS दिजन्यकर्मलघुर्तव मोक्षकारणमस्तु किं रत्नत्रयेण -- 'प्रथ रत्न त्र्यप्राप्तेः प्राक्कर्मलघुता तथा । पश्तोऽपि तथैव स्यादिति किं तदपेक्षया ॥ ८४ ॥ टीका:- मोक्षकार्य प्रति रत्नत्रयं कारणं माऽस्तु यतो रत्नत्रयप्राप्तेः प्रागपि जीवस्य पूर्व सेवादिकारणजन्यकर्मलघुना भवन्ती समागताऽसीत्, तादृशीं कर्मलघुतां विना रत्नत्रयप्राप्तिर्न भवति, ततोऽधुनैषैव पूर्वसेवादिकारणकर्मलघुता, वर्धमाना २ यावत् सर्वकर्मक्षयो भवेदिति वाच्या, अथ सर्वकर्मक्षयकृते रत्नत्रयं नाssवश्यकं परन्तु एतत्पूर्व सेवाऽऽदिजन्यकर्म लघुतैव मोक्षं प्रति कारण मस्त्विति चेत् ॥८४॥ For Private & Personal Use Only ॥२८८॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy