________________
अध्यात्म
मारः
॥२८९।।
Jain Education Internati
- तस्मात् सम्यक्त्वादिक्रिया दैव शिवसाधने
नैवं यत्पूर्व सेवेव, मृदी नो साधनक्रिया । सम्यक्त्वादिक्रिया तस्मादेव शिवसाधने ॥ ८५ ॥
टीका:- मार्गानुसारिताया गुणप्रापिकाः पूर्वसेवादिक्रियाः सन्ति ता अतिशयमृद्वयो भवन्ति, arers: कोमलक्रिया मोक्षाय साधीयस्यो न भवन्ति, मोक्षस्य साधने त्वत्यन्तदृढा एव क्रिया आवश्यक्यस्तादृश्यस्तु रत्नत्रयस्याराधनारूपा अतिदृढसम्यक्त्वादिक्रिया एव तस्मात्पूर्वसेवा दिक्रियाभिर्मोक्षप्राप्ति रापास्तेव ॥ ८५ ॥
-अथ वेत्युक्त्वा पक्षाऽन्तरमाह
गुणाः प्रादुर्भवन्त्युच्चे-रथवा कर्मलाघवात् ।
तथा भव्यतया तेषां कुतोऽपेक्षानिवारणम् ॥ ८६ ॥
टीका:- अथवा तत्तजीवानां तथाभन्यत्वपरिपः कवलतः कर्मणो लाघवं भवत्येव, कर्मलघुताया बलत उच्चैः सम्यग्दर्शनादयो गुणाः प्रादुर्भवन्ति, सम्यग्दर्शनादिगुणानां वलतो मोक्षो भवति, अथ वस्तुस्थिति - रेतादृश्येव यदा तदा तेषां सम्यग्दर्शनादिगुणरूपकारणानां कुतः कस्मादपेक्षानिवारणम् ९ अर्थान्मोक्षकारणतयाऽवश्यं सम्यग्दर्शनादिगुणाः सर्वथाऽपेक्षिता एवेति ॥ ८६ ॥
For Private & Personal Use Only
॥२८९॥
www.jainelibrary.org