________________
अध्यात्म
सार:
||२८४||
'वचनं नास्तिकाभाना-मात्मसत्तानिषेधकम् ।
भ्रान्तानां तेन नादेयं, परमार्थगवेषिणा ॥ ७७ ॥ टीका:-तस्माद् भ्रान्तानां नास्तिकामानां वस्तुतस्त्वात्मसत्तानिषेधकं वचनं परमार्थगवेषिणा तेन नाऽऽदेयम् , आत्मनः कर्मणो बन्धं च मोक्षं चाऽमन्वानाः, श्रीग्रन्थकारेण नास्तिका इति न कथयता 'नास्तिकाऽऽभा:' कथ्यन्ते, यत एते जीवाः स्थूलदृष्टया विचार्यमाणे त्वात्मानं मन्यन्त एवं दृश्यते, तथाऽपि सहव सूक्ष्मदृष्टया विचारयता ग्रन्थकारेण ज्ञातं यत् , ते आत्मसत्तामेव च न मन्यन्ते,यतो ये आत्मनो मोक्षं न मन्यन्ते, त आत्मनः कर्मणो बन्धमपि नैव मन्यन्ते, अत आत्मनः कर्मबन्धहेतुभृतं रागादिकमपि नैव मन्यन्ते, एवं सति रागादिमयस्य संसारिण आत्मनः सत्ताया लोप एव कृतः, किश्च वीतरागस्वरूपमात्मानमपि ते न मन्यन्ते, यत एषा तु आत्मनो मोक्षाऽवस्थाऽस्ति, आत्मनो मोक्षं तु ते न मन्यन्ते, एवं द्विधा
फलितो भवति, अर्थात् सूक्ष्मदृष्टया तु ते आत्माऽस्तित्वप्रतिषेधकाः नास्तिका एच कथ्यन्ते, यदा स्थूलदृष्टया नास्तिकामासाः कथ्यन्ते, यत आत्मानं तु मन्यन्ते इति ॥७७।।
-षष्ठपदं मोक्षापायो नास्तीति-माण्डलिकमतमण्डनम्'न मोक्षोपाय इत्याहुरपरे नास्तिकोपमाः। कार्यमस्ति न हेतुश्चेत्येषा तेषां कदर्थना ॥ ७८ ॥
X||२८४॥
Jain Education Intema
For Private & Personal
sen
www.jainelibrary.org