SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-10 सारः ॥२८२। पुनर्भवाऽऽपत्तिः स्यादिति चेन यथा घटादेव॑सो जन्योऽस्ति तथाऽपि स विनाशी नाऽस्ति, किन्तु नित्योऽस्ति यतो ध्वंसस्य धंसो नास्त्येव, तस्मात्तादृशो नियमो नाऽस्ति 'यञ्जन्यं तद् विनाशी' ति' एवं मोक्षे जायमानस्थितेर्जन्यत्वेऽपि, प्रध्वंसवद् , अनिधनत्व-अनन्तत्वव्यवस्था, तस्य-मोक्षस्य वर्तते, . तस्मान्मुक्तस्य न पुनर्भवाऽऽपत्तिरिति ॥७॥ ___- ज्ञानादेः कर्मणो नाशे सत्यात्मनि किमधिकं भवति ? :'थाकाशस्येव वैविकृत्या, मुद्गरादे र्घटक्षये । ज्ञानादेः कर्मणो नाशे, नात्मनो जायतेऽधिकम् ॥७॥ टीका:- ननु किमाऽऽत्मा कर्मणो मुक्तो भवेत्तदा तस्मिन् किमप्यधिकं न भवतीति चेन मुद्गरादिना घटस्य वंसे कृते घटात्मकस्याऽऽवरणस्य गमने नभोऽपि किश्चिदपि महन्न भवति तथा ज्ञानादितः कर्मणो नाशे कर्मनामकावरणे विगते सति, आत्मनि किमप्यधिकं न भवति, अस्यात्मनो यदनन्त. चिदानन्दमयं स्वस्वरूपं प्रकाशते एवेति ॥७॥ कर्मनामकाणुसम्बन्धान्मुक्तस्य कथं मुक्तता? 'नच कर्माऽणुसम्बन्धा-न्मुक्तस्याऽपि न मुक्तता । योगानां बन्धहेतूना-मपुनर्भवसम्भवात् ॥७॥ ॥२८२॥ Jain Education Intema www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy