________________
॥२७९॥
'स्वाभाविकं च भव्यत्वं, कलशप्रागभाववत् ।
नाशकारणसाम्राज्याद, विनश्यन्न विरुद्धयते ॥७॥ टीका:-ननु जीवस्य भव्यत्वं-मुक्तिगमनयोग्यत्वं स्वाभाविकमस्ति, ततः पश्चाज्जीवस्य मोशे जाते तम्य भव्यत्वस्य नाशः कथं? किं स्वभावस्य नाशो भवति इति चेदुच्यते घटस्य प्रागभावः (अमावविशेपः) स्वाभाविकोऽस्ति तथाऽपि तस्य प्रागमावस्य नाशकारणानां दण्डकुलालघटादीनामुपस्थितो तु तव प्रागभावस्य नाशो भवति तथा प्रस्तुतेऽपि भव्यत्वनाशकारणभूतमुक्तिभावस्य प्राप्ती भव्यत्वनाशे न कश्चिद् विरोधः, ननु जीवे स्वाभाविकं जीवत्वमप्यस्ति, तदा मोक्षप्राप्ती किं जीवत्वस्यापि नाशो भवेदिति चेदुच्यते, जीवत्वमेतदुपादानकारणमस्ति, भव्यत्वमेतच्च सहकारिकारणमस्ति, मोक्षकार्योत्पत्तौ मत्या भव्यत्वरूपसहकारिकारणं गच्छति, जीवत्वरूपोपादानकारणन्तु नैव गच्छति, यथा घटस्योत्पत्ती सन्या, घटसहकारिकारणभृतदण्डादिकं गच्छति, परन्तूपादान कारणीभूतमृत्तिका तु सहेव तिष्ठति, अर्थाद्घटरूपेण परिणमतीति ॥७०॥
-: भव्योच्छेदो नैवं स्याद् गुर्वानन्त्यानभोऽशवत् :'भव्योच्छेदो न चैवं स्याद् , गुर्वानन्त्यानभोंऽशवत् । प्रतिमादलवत् क्वापि, फलाभावेऽपि योग्यता ॥७॥
।
॥२७॥
Jan Education Internation
For Private & Personal use only
w
ww.jainelibrary.org