SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२८०|| ___टीका :-ननु यदि भव्येषु मोक्षगमनयोग्यता भवेत्तदाऽनन्तकालानन्तरमप्येतादृशः समय आगमिष्यति, तदाऽस्मिन् संसारे, एकोऽपि भव्यो जीवो न स्थास्यति, एकाकिभिरभव्यजीवें भृतः संसारः किं भविष्यति ? अथाऽत्रैवं कदाचित्समाधानं कुर्याद् यत् 'केचिद् भव्या मोक्षगता भविष्यन्ति, केचिन्न' तदैवं प्रश्न: स्यात्तदा तेषु भव्येषु स्थितस्य भव्यत्वस्य कोऽर्थः । भव्यत्वस्य निष्फलताऽऽपत्ति भवेदिति चेन यथाऽऽकाशस्य प्रदेशास्तथा भविष्यत्कालस्य समया अष्टमेऽनन्ते स्थायिनो भवन्ति तेषां कदाचिदप्यन्तो नाऽऽयाति, तथा भव्यजीवा अप्यष्टमेऽनन्ते तिष्ठन्ति, कस्मिंश्चिदपि काले भव्यैः शून्यः संसारो भविष्यतीत्यापत्ति न गमिष्यति, भाविन्यनन्तकाले यदाऽपि कश्चिद् भव्याऽऽत्मा, केवलिनं भगवन्तं पृच्छेद् यत् ‘अद्यपर्यन्ताः कतिपयसंख्याका भव्या मोक्षं प्राप्ताः स्युः १ तस्येकमेवोत्तरं सदा दास्यति भगवान, यद् यावन्तो भव्याः सन्ति, तेषामनन्ततमो भागः सिद्धिपदं प्राप्तोऽस्ति, किन-के चिदेतादृशा भव्याः सन्ति, ये जात्या भव्याः-जातिभव्याः कथ्यन्ते, तेषु सत्यपि भव्यत्वे ते कदाचिदपि मोक्षं न गमिष्यन्ति, एतावन्मात्रमपि न परन्तु ते जीवाः प्रत्येकतिर्यकत्वमपि कदाचिदपि न प्राप्स्यन्ति, ततो मनुष्यो भूत्वा मंयमव्रताधाराध्य मोक्षगमनस्यापि का वार्ता ? ननु सतः पश्चात्तेषां भव्यत्वं किं न निष्फलं मोक्षे कदापि न गच्छेयुस्तदा तेऽभव्याः किं न कध्यन्ते ? इति चेन्न, स्वयंभूरमणसमुद्रस्याऽन्तस्तले स्थिते पापाणे प्रतिमाभवनयोग्यताऽवश्यमस्ति, अस्तु तावत् पाषाणतः कदाचि ॥२८॥ Jain Education Internation! For Private & Personal use only rww.sainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy