SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२७६॥ 'अनादि-यदि सम्बन्ध–इष्यते जीवकर्मणोः । ___तदानन्त्यान्न मोक्षः स्या-त्तदाऽत्माऽऽकाशयोगवत् ॥६॥ टीका:-ननु जीवकर्मणोरनादितः सम्बन्धोऽस्ति, ततः प्रापश्चाद् युगपद् विषयकोत्पत्तेः प्रश्नो न सम्भवतीतिचेन्न, यदि जीवकर्मणोः सम्बन्धोऽनादिर्भवेत्तदा स सम्बन्धोऽनन्तोऽपि भवति, यस्याऽऽदिन तम्याऽन्तोऽपि न भवति, यथाऽऽत्माऽऽकाशयोगः, यतोऽनादिरस्ति ततोऽनन्तोऽस्ति, तथाऽत्रापि ज्ञेयमिति मोक्षो न स्यादेवेति ॥६४॥ - अमोक्षवादियाज्ञिकमत खण्डनम् - 'तदेतदत्यसम्बद्ध, यन्मिथा हेतुकार्ययोः । सन्तानाऽनादिता बीजा-कुरवदेहकर्मणोः ॥६५॥ टीका:-तदेतत् सर्व याज्ञिकमतमसङ्गतम् , या आत्माऽहेतुरस्ति, कमैंतत्कार्यमस्ति, कमैंतत्कारण मात्मनश्च विभिन्नपर्यायाः कार्यमस्ति. कर्मणा भिन्नभिन्नस्वरूपा भवाः प्राप्यन्ते, एतेषु च भवेषु कर्म बध्यते, पुनरेतेन कर्मणा भवाः प्राप्यन्ते, एवं द्वयोदेहकर्मणो देहिकर्मणोर्वा परस्परं कार्यकारणभावोऽस्ति, यथा चीजाकुरयोः, कार्यकारणभावः सन्तानतःप्रवाहतोऽनादिरस्ति तथाऽऽत्मर्मणोदेहकर्मणो कार्यकारणभावोऽपि सन्तानाऽनादिरूपोऽस्ति ॥६५॥ ॥२७६॥ Jan Education Intermate Pimate a Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy