________________
अध्यात्म सार:
||२७५॥
'नास्ति निर्वाणमित्याहु-रात्मनः केऽप्यवन्धतः ।
प्रापश्चाद् युगपद् वापि, कर्म-बन्धाऽव्यवस्थितेः ॥६३|| टीकाः-आत्मनो नास्ति निर्वाणम् , यतो यो बध्यते स मुच्यते, आत्मा, कर्मणा न बध्यते एव, तदा तम्य मोक्षस्तु कथं भवेत् ? यद्यात्मा कर्मणा बध्यमानो भवेत्तदा प्रश्नत्रयी उपस्थीयते तथाहि (१) किमात्मन उत्पत्तेः पूर्वमेव कर्मोत्पद्यते ? तेन कर्मणा स किं बध्यते १ यद्येवं वस्तुस्थितिः स्यात्तदा तत्सर्वथाऽ- ६ संगतं भवति यत आत्मकत्वहेतुना कर्मणि कर्मत्वमायाति, आत्मैव नास्ति तदा कर्तुत्वं विना, कर्मवस्तु, अस्तित्वाभाववद् भवति, कर्म विनाऽऽत्मनो बन्धो न भवति, बन्धं विना मोक्षोऽपि नैव० (२) किमान्मा, प्रागुत्पद्यते ? पश्चात्तं कर्म किं बध्नाति ? एष विषयोऽपि न समीचीनो यतो, यतः केनाऽपि हेतुना विना कथमात्मोत्पद्यते ? उत्पत्ती केनाऽपि कारगेन भवितव्यं किं न १ (३) किमात्मा कर्मच युगपदत्पद्यते? एतदपि न समीचीनम् , यतो युगपदुत्पन्ने वस्तुद्वये, एकः कर्ता, द्वितीयं कार्य, एवं कतत्व कार्यत्वं च न घटेते, गोसम्बन्धिशङ्गद्वये मिथः कत्तत्वकार्यत्वे न घटेते एवात्मनि कर्मबन्धः कयाऽपि रीत्या न मञ्जाघटीति, आत्मनो मोक्षस्य वार्ताऽपि न सम्भवतीति ॥३३॥
- जीवकर्मणोरनादि सम्बन्धेऽनन्तत्वेनाऽत्मनो मोक्षो-न -
२७५॥
Jain Education Internationa
For Private & Personal use only
www.jainelibrary.org