SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अध्यात्ममार: ॥२७॥ 'एतस्य चोपचारत्वे मोक्षशास्त्रं वृथाखिलम् । अन्यस्य च विमोक्षार्थे, न कोऽप्यन्यः प्रवर्त्तते ॥६॥ टीका:-ननु पुरुषस्य बन्धमोक्षौ तूपचारत्वेन कथ्येते वस्तुतस्तु बुद्धिरेव बध्यते मुच्यते च तथाऽपि तयोरुपचारः पुरुष भवति, पुरुषस्तु सदा मुक्त एव, पुरुषस्य बन्धमाक्षी न स्तः इति चेन, यदि पुरुषे बन्धमोक्षावुपचरितो' भवेतां तदा मोक्षस्य प्रतिपादनं कुर्वतां भवतां मोक्षशास्त्र समस्तं वृथा-निरर्थकं सिद्धं भवति यतः पुरुषाद् भिन्नाया बुद्धे निरुपचरितमोक्षाय पुरुषः कथं प्रयत्नं कुर्यात् १ यज्ञदत्तस्य मोक्षाय सोमदत्तस्यागतपश्चर्यादिकं नैव कुर्यात् तद्वदत्रापि योध्यमिति ॥६॥ -तस्मात्कापिलानामस्मिन् मते रतिर्नवोचिता'कापिलानां मते तस्मा-दस्मिन्नवोचिता रतिः । यत्राऽनुभवसंसिद्धः, कर्ता भोक्ता च लुप्यते ॥६२|| टीकाः-एतादृशे साङ्ख्यानां मतेऽस्मिन् रतिः-न रुचिः सर्वथा नोचिता-न युक्ता, यतो यत्रानुभवप्रमाणेन संसिद्धस्य कर्म कर्तु स्तत्फलभोक्तुरात्मनो विलोपः क्रियते ।।६२॥ (५) नास्ति निर्वाणमिति याज्ञिकमतप्रतिपादनम् [ ॥२७४॥ Jain Education Interna For Private & Personal use only ___www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy