________________
11२७३।।
-कृतिभोगौ बुद्धश्चेद् पन्धमोक्षौ नाऽऽत्मन:'कृतिभोगौ च बुद्धेश्चेद्-बन्धो मोक्षश्च नात्मनः।
ततश्चात्मानमुद्दिश्य, कूटमेतदयदुच्यते ॥५॥ टीकाः-यदि कत्तृत्वं च भोक्तृत्वं च बुद्धेरेव गुणत्वेन गण्येते तदा निरुपचरितत्वेन बन्धश्च मोक्षो नात्मनो भवेता, तत आत्मानमुद्दिश्य कपिलेन यद् वक्ष्यमाणमस्ति तन्कूटमुच्यते ॥९॥
-कपिलेनात्मानमुद्दिश्य यत्प्रोक्तं तदुच्यते'पञ्चविंशतितत्त्वज्ञो, यत्र यत्राऽऽश्रमे रतः।
जटी मुगडी शिखी चाऽपि, मुच्यते नात्र संशयः ॥६॥ टीका:-कपिलमुनिना कथितं यद् 'पञ्चविंशतिमख्याकतत्वज्ञः सन् कुत्रचिदपि गृहस्थाश्रमादिकाश्रमचतुष्के रतःपरायणः, जटाधारी स्यान्नवा, जटाशून्यो मुण्डीवा, शिखाधारी स्यान्नवा स पुरुषो मुच्यते-मोक्षवान् भवति, अत्र विषये न संशयः, केवलं पञ्चविंशतितत्वज्ञः पुरुषो मोक्षायेष्ट एवेति ॥१०॥
-पुरुषे पन्धमोक्षयोरुपचरितत्वे मोक्षशास्त्र वृथाऽखिलम्
२७३॥
Jain Education inte
Far Private & Personal use only
www.jainelibrary.org