________________
अध्यात्म
सार:
॥२७०॥
Jain Education Intern
नाथे भवतः, राजा जयति पराजयते च तथा वस्तुतस्तु पुरुषे सुखादिकं नास्त्येवः तथाप्यनया रीत्योपचारमात्रेण पुरुषे सुखादिकं स्यादिति ॥ ५३ ॥
- कर्त्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जन:'कर्त्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जनः । श्रध्यासादन्यथाबुद्धि-स्तथा चोक्तं महात्मना प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वथा । ग्रहङ्कारविमूढात्मा, कर्त्ताऽहमिति मन्यते ।। ५५ ।।
॥५४॥
टीका:- तस्मादात्मा नो कर्त्ता च नो भोक्ता परन्तु नित्यो निरञ्जन:- सर्वथा रागाद्यञ्जनरहितस्तथाऽपि प्रकृत्या सहाभेदग्रहरूपाऽध्यासजन्याऽन्यथाबुद्धिरेवं भवति यत् 'सुख्यहं दुःख्यहं करोम्यहं' इत्यादि तथा च महात्मना कपिलेनोक्तं 'प्रकृतेः सत्वरजस्तम आदिगुणैः क्रियमाणानि सर्वथा कर्माणि भवन्ति, तथापि, अहङ्कारण विमूढाऽऽत्मैवं मन्यते यत् 'तत्कर्मकर्त्ताऽहमस्मि', वस्तुतस्तु पुरुषः पुष्करपलाशवनिर्लेपोऽस्ति, अकर्त्ताऽस्ति, अभोक्ताऽस्ति, परन्तु बुद्धया सहाऽ मेदाऽध्यासात् 'कर्त्ताऽहं भोक्ताऽहमिति मूढतां करोति ॥५४॥ ५५ ॥
For Private & Personal Use Only
॥२७०॥
www.jainelibrary.org