SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अध्यात्म माः ।। २६६ ॥ Jain Education Internat अहङ्कारतत्त्वस्य सिद्धि: 'स्वप्ने व्याघ्रादिसङ्कल्पा- नरत्वाऽनभिमानतः । श्रहङ्कारश्च नियत - व्यापारः परिकल्प्यते ॥ ४९ ॥ टीका:- प्रसुप्तस्य स्वप्नदशायां 'व्याघ्रोऽहं वराहोऽहमित्यादिमानाऽवसरे 'नरोऽह' मिति मानं न भवति, अर्थात्रेन्द्रियमनसो व्र्व्यापारोऽस्ति, नरत्वस्य स्वस्मिन् सन्निधानमप्यस्ति तथापि तस्य 'नरोऽहमिति भानं न भवति, व्याघ्रोऽहमथवा वराहोऽहमिति भानं भवति, 'नरोऽह' मिति भानाभावे यस्य व्यापारस्य विरहः कारणमस्ति, तस्य व्यापारस्य सद्भावो 'नरोऽह' मिति मानकारणमस्ति इति मन्तव्यमेवात एवाSeङ्कारपदार्थसिद्धिः यदि स्वप्नदशायामहङ्कारस्य व्यापारः स्यात्तदा 'नरोऽहमिति नियतं भानं स्यात्, एकदैक एव व्यापारो नियतस्तिष्ठति, एवं नियतव्यापारवान हङ्कारनामकः पदार्थः सिद्धयतीति ॥ ४९ ॥ - तन्मात्रादिषोडशगणस्य सिडि:'तन्मात्रादिक्रमस्तस्मात्प्रपचोत्यत्तिहेतवे 1 इत्थं बुद्धिर्जगत्कर्त्री, पुरुषो न विकारभाक् ॥ ५० ॥ टीकाः- पूर्वोक्ताऽहङ्कारना मकतत्त्वतस्तन्मात्रादिषोडशतस्त्रानि, पूर्वकथिताऽनुसारेणोत्पद्यन्ते एवं मन्तव्यमेव, यतस्तन्मात्रादिक्रमं विना प्रपञ्चरूपसंसारस्योत्पत्तिर्नघटते, एवं पश्चविंशतिस्तत्त्वान्यवश्यं स्वी For Private & Personal Use Only ॥२६६॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy