________________
अध्यात्म
सारः
॥२६५॥
सम्बन्धित्वस्वभाववतो न स्वीकुर्मः परन्तु, इन्द्रियमात्रद्वारा (मनोविना) चैतन्यसमन्धित्वस्वभाववतः स्वीकुर्मः, अर्थाद ये घटादयोऽर्था इन्द्रियद्वारा चैतन्यसम्बन्धिनो भवन्ति, ते दृष्टाः, अन्येऽदृष्टा भविष्यन्ति एवं दृष्टाऽदृष्टविभाग उपपमो भविष्यतीति चेन्न (४) इन्द्रियाणि विषयावच्छेदं कत' न शक्नुवन्ति यदि केवलेन्द्रियद्वारा घटादौ चैतन्यसम्बन्धित्वं स्वीकृतं स्यात्तदा व्यासङ्गोऽनुपपन्नो भविष्यति, व्यासङ्गश्च ज्ञानोत्पत्तौ विलम्ब इत्यर्थः, एकमिन्द्रियं घटपदार्शन सह सम्बन्धं करोति तदपि घटपदार्थविषयकं ज्ञानं न भवति, कदाचिन् पदार्थेन सहेन्द्रियसम्बन्धे सत्यपि पदार्थज्ञानोत्पत्ती विलम्बो भवति, अथ यदीन्द्रियद्वाराघटादिपदार्थश्चैतन्यसम्बन्धि-भवनम्वभाववान मवेत्तदा तत्कालमेव तम्य पदार्थ ज्ञानोत्पत्तिः स्यादेवं च भवनेादेतादृशो ज्ञानोत्पत्तिविलम्बरूपव्यासङ्गोऽनुपपन्नो मवेदित्याऽऽपत्तिरागच्छेत , एतं व्यासङ्गाभावमुपपादयितु मनोऽपि मन्तव्यं स्यात् , यावन्मनःसहकृतं न स्यात्तावत्तत्तत्पदार्थज्ञानोत्पत्तौ विलम्बः स्यात्तथाप्यनया रीत्येन्द्रियं मत्वा मत्वा बुद्धिनामकपदार्थो न स्वीक्रियेन तथाऽपि सिद्धिर्न भवति, यतः - सुषुप्तौ इन्द्रियमनसो र्व्यापाराभावे सत्यपि तत्र श्वासनिःश्वासादिकक्रिया भवति, तस्या निमित्तत्वेन बुद्धिनामक तत्वमवश्यं मन्तव्यम् , अर्थाद् विषयावच्छेदकारक बुद्धितत्त्वं कथं न मान्यं स्यात् । एवं रीत्या वृद्धितत्वस्य सिद्धि भवति, पुरुषः प्रकृतिश्चार्थश्चेन्द्रियाणि विषयावच्छेदकारकाणि नेति विषयोऽपि स्थिरो जात इति ॥ ४८ ॥
॥२६॥
in Education inte
For Private & Personal use only
sanww.jainelibrary.org