SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अध्यात्म १२६१॥ टीका:-तस्मात्-पूर्वोक्तकारणात , नित्यसत्यचिदानन्दपदसंसर्गमिच्छता' अविनाशिसच्चिदानन्दस्वमावस्थानसम्बन्धं स्पृहयता मुमुक्षणा 'इदमपि त्याज्यमनित्यत्वस्य दर्शनम्' =पूर्ववदिदं शून्यवादप्रधानं बुद्धदर्शनं त्यागयोग्यमिति ।। ४४ ॥ - सारूयमतस्य प्रतिपादनम् 'न कर्ता, नाऽपि भोक्ताऽऽत्मा, कापिलानां नु दर्शने। जन्यधर्माश्रयो नायं, प्रकृतिः परिणामिनी ॥ ४५ ॥ टीकाः-साङ्ख्या आत्मानं पुरुषपदेन सम्बोधयन्ति, पुरुषः शुभाऽशुभकर्मणां कर्ता न, भोक्ताऽपि न. कमलदलवनिर्लेपः, संसारस्य कारणं प्रकृतिनामकं तत्त्वं, एषा प्रकृतिः पुरुषात् सर्वथा भिन्नास्ति, अचेतनप्रकृतेः प्रतिबिम्ब चेतने पुरुषे पतति, तत एतादृश एवं पुरुषस्य भ्रमो भवति यदई प्रकृतिरस्मि, एवं रीत्या प्रकृतेनं मो भवति पुरुषोऽहमस्मि' एवं सर्वथा भिमताविषयकज्ञानस्याऽभावात्-अभिन्नताया भ्रमस्य हेतुना पुरुषस्य संसार उत्तिष्ठते, यदैतस्य भ्रमस्य भङ्गो भवति, तदा प्रकृतिपुरुषो मिनी भवतः, एषैव पुरुषस्य मोक्षाऽवस्थाऽस्ति, एष पुरुष एकान्तनित्यत्वेन सर्वथा निष्क्रियोऽस्ति, तस्मिन् कोऽपि जन्यधर्म उत्पादाऽनों भवति, ज्ञानादयोऽखिलजन्यधर्मास्तस्या जडप्रकृतेरेव सन्ति, यतः सा प्रकृतिः परिणामिनी, पुरुषश्चेत् परिणामी स्याचदा सोऽनित्यो भवेद , सोऽपरिणामी सर्वथा मतोऽस्ति, अथ पूर्वो ४॥२६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy