________________
अध्यात्मसारः
॥२५७
प्रत्यक्षतस्तु क्षणिकत्वस्य मिद्धिर्भविष्यति, कथं न भविष्यति ? निर्विकल्पकप्रत्यक्षन्तु वयं प्रमाणं मन्यामहे नैयायिका:-विकल्प-निबयं विना तु निर्विकल्पप्रत्यक्षं प्रमाणभूतं भवितुनाईति, क्षणिकत्वस्य च विकल्पो-निश्चयस्तु न भवति, ततो निर्विकल्पकप्रत्यक्षेण पदार्थे क्षणिकत्वस्य सिद्धि ने भवति, अतो युष्मदीयः क्षणिकवादो मिथ्येति निश्चितम् ॥३७॥
-एकताविषयकं प्रत्यभिज्ञानं क्षणिकत्वं बाधत एव'एकताप्रत्यभिज्ञानं, क्षणिकत्वं च बाधते ।
योऽहमन्वभवं सोऽहं स्मरामीत्यवधारणात् ॥३८॥ टीका:-किश्चाऽऽत्मैवमवधारयति यत 'योऽहमन्वभवं सोऽहं स्मरामी'त्यत्र भूतकालीनवर्तमानकालीनाऽत्मन्येकताया-अभेदस्य यो निश्चयो भवति, एवमेकताप्रत्यभिज्ञानमेवं दर्शयति यदात्मा क्षणिको न भवति, यद्येवं स्यात्तदाऽनुभवकर्ता, स्मरणकर्ता च द्वौ एक एव न भिन्नावित्यवधारणमसम्मवीति ॥३८॥
-आत्मन्येकताविषयस्य वाधाभाव:'नास्मिन विषयबाधो यत्, क्षणिकेऽपि यथैकता । नानाज्ञानाऽन्वये तद्धत्, स्थिरे नानाक्षणाऽन्वये ॥३॥
॥२५७॥
Jain Education Internatio
Far Private & Personal use only
ww.jainelibrary.org