SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२५५॥ Jain Education Internat कुरोद्देशेन प्रवृत्तिं कुर्यामिति कस्यचिदपि न प्रतिभाति (१) यथा कुर्वद्रूपविशेषवति क्षणिकपदार्थे न कोsपि प्रवर्त्तते तथा क्षणिक पदार्थस्य क्षणिकत्वस्यानुमानं तत्र न प्रवर्त्तते (२) क्षणिकत्वविषयकनिश्चयंसविकल्पज्ञानं विना क्षणिकत्वस्य निर्विकल्प प्रत्यक्षमपि न सम्भवतीति (३) एवं क्षणिकवादे प्रवृत्तेरभावः, अनुमितेरभावः, प्रत्यक्षस्याभावश्च मन्ति ततः कयाऽपि रीत्या पदार्थे क्षणिकत्वस्य सिद्धिर्न भवतीति ॥ ३६ ॥ - उदयनाचार्येण कुसुमाञ्जलिग्रन्थस्य प्रथमस्तबके षोडश्यां कारिकायां यः श्लोको रचितोऽस्ति स एव श्लोक उपाध्यायजीमहाराजेनोक्त विचारस्य साक्षित्वेनाऽथोल्लिरूयते'न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् । विना तेन न तत्सिद्धि र्नाऽव्यक्षं निश्चयं विना ||३७|| टीका :- (बौद्धा:) कुमूलस्थाद् बीजादङ्कुरो नोत्पद्यते तद्बीजं च क्षेत्रे पतितं यदा ततोऽकुर उत्पद्यते तत्र किं कारणम् १ नैयायिकाः = पृथ्वीजल पूर्यकिरणादिसहकारिकारणानि क्षेत्रे मिलितानि तानि कारणानि कुसूले न विद्यन्ते ततः क्षेत्रे तत् बीजपतनाऽनन्तरं तत्तत्सहकारिकारणैरङ्कुरः स्फुटति, कुम्ले तु न (बौद्धाः ) - यदि कुसूलस्थं बीजं क्षेत्रस्थं बीजमेकमेव भवेत् तदा तद्वीजं क्षेत्रगमनाऽनन्तरं कथमङ्कररूपं कार्यमुत्पादयेत् १ यद्यङ्करोत्पादस्वभाववद् भवेत्तदा प्रथमत एव कुमले तत् बीजमासीत् ॥२५५॥ सदैव किमकुरं नोत्पादयेत् १ ततो मन्तव्यमेव बीजमेकं नास्ति, कुसूलस्थं यद् बीजमस्ति तदेव बीजं , For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy