SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ सास ॥२५३॥ तत्फलं प्राप्स्यते, अकृतधर्मादिकृत्यो नव आत्मा, तत्सुखादिफलं भोक्ष्यति कृतधर्मादिकृतजन्यफलध्वंस:, धर्मादेरकरणेऽपि अकृतकृत्यफलस्वरूपसुखादिफलागम इति द्वौ दोषावागमिष्यतः, इति ॥३४।। एकद्रव्याऽन्वयाभावान वासनासक्रमः एकदव्याऽन्वयाऽभावाद्, पासनासंक्रमश्च न । पौर्वापय्यं हि भावानां, सर्वत्रातिप्रसक्तिमत् ॥ ३५ ॥ टीका:-ननु अस्माकं क्षणिकाऽऽत्मवादेकृतनाशाऽकृतागमरुपो द्वौ दोषो नाऽऽगमिष्यतः, यतो वयं वासनासक्रमं मन्यामहे तथाहि आत्मन एकान्तक्षणिकत्वेन प्रत्येकक्षणेषु नाशो भवतु परन्तु तत्तरक्षणरूप आत्मा, स्वस्थानां बासनानामुत्तरोत्तरक्षणेषु सङ्क्रमं करोत्येव पूर्वक्षणीयधर्मादिवासनारूपे कारण आगते, तस्याः मुखादिफलमवश्यं स भुक्ते इति चेदुच्यते; युष्मन्मते प्रत्येकक्षणरूपम्य प्रत्येकात्मनो निरन्वयनाशो भवति, अथ यदा प्रथमक्षणीय आत्मा, सर्वथा नष्टस्तदा तस्य नष्टस्यात्मनो वासना कथं द्वितीयक्षणे नवोनाऽऽत्मनि सङ्क्रान्ता भविष्यति ? यदि प्रत्येकात्मनो निरन्वयनाशो नाऽभविष्यत्तदाऽवश्यमान्मद्वयमध्ये कश्चित् सम्बन्धोऽभविष्यत् , ततश्च तद्वारा वासनासक्रमोऽपि स्यात , परन्तु तादृशः कश्चिदेकद्रव्यस्यान्वयस्तु नास्त्येव, तस्माद् वासनासक्रमोऽसम्भवाऽऽक्रान्तः, किञ्चैकः पूर्वेक्षणरूप आत्माऽस्ति, द्वितीयश्रोत्तरशणरूपात्माऽस्ति, तादृशं यद्यात्मादिभावानां पौर्वापर्य यूयं मन्यच्चे तदा ततः ४॥२५३॥ Jain Education International Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy