________________
अध्यात्म
मार:
॥२५२॥
ऽयक्रिय भवति, तम्याः पूर्वक्षणे, आत्मा कुद्पेण विशिष्ठो भवति किन य आत्मानं क्षणिकत्वेन न मन्यत तेषां तु 'अहमस्मि' इति तादृशं ध्रवनिरीक्षणरूपमात्मदर्शनमवश्यं भवत्येव तथा तस्य पुनर्जन्महेतुभूनताणाऽपि भविष्यति. अर्थात्तस्याऽऽत्मन उपरि स्नेहो भाव्येव ततः स, आत्मा सुखस्य साधनानि प्रति द्रुतं २ गच्छत्येव यद्याऽऽत्मानं ये क्षणिकत्वेन मन्यन्ते तेषामहमस्मीति आत्मदर्शनं न भविष्यति तत आत्मोपरि स्नेहो न भावी ततः सुखसाधनानि प्रति द्रुतं २ न गमनं भावि एवं नित्याऽऽत्मदर्शनं वैराग्यस्य विधि भवति यदा क्षणिकाऽऽत्मदर्शनं तृष्णानिवृत्तिरूपं गुणं प्रापयत्येवेति ॥ ३३ ॥ बौडमतस्य वण्डनम्
मिथ्यात्ववृद्धिकृन्नूनं, तदेतदपि दर्शनम् ।
क्षणिके कृतहानिर्य-तथाऽऽत्मन्यकृतागमः ॥ ३४ ॥ टीका:-'मिथ्यात्ववृद्धिकृन्ननं तदेतदपि दशनम्' यथा पूर्वोक्तं चार्वाकदर्शनं मिथ्यात्वं-मिथ्याबुद्धिं वर्द्धयने, तथैतदपि चौद्धदर्शनं मिथ्यामतो वृद्धि कगेत्येव, यद्यात्मा, मर्वथा क्षणिको भवेत्तदाऽन्मुकक्षणे येन कृतानि पुण्यादिकार्याणि तेषां फलाना हानि भविष्यति, येवागामिक्षणेषु फलं भावि, तेषु क्षणेषु त्वेष आत्मा न स्थित आसीत , किश्चाऽनन्तरमणेषु यो नव आत्मोत्पन्न आमीत , तेन तु धर्मादिकार्याणि न कृतानि तथापि तस्य सुखादिफलप्राप्तिर्भविष्यति, एवं प्रथमक्षणस्थेन कृतधर्मादिकार्येणाऽऽत्मना न
||२५२॥
an Education Interna
For Private
Personal Use Only
w.jainelibrary.org