SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥२५॥ यस्मिन् क्षणे एष आत्मोत्पद्यते तस्मिन क्षणे स तिष्ठति द्वितीयक्षणे तु स सर्वथा विनश्यति एवं क्षणे क्षणे नवं नवं ज्ञानमुत्पद्यमानमस्ति, एतादृशी या ज्ञानक्षणानां धारा स एवाऽत्माऽस्ति, बौद्धप्रश्न: युष्मदमिमता नित्य आत्माऽथक्रियां करोति, म कि क्रमेण चाऽक मेण करोति ? क्रमेण कथ्यमाने प्रथमक्षणे तस्याऽमुककार्यकरणस्वभावो य आसीत् स तु नष्टो, द्वितीयक्षणे च द्वितीयकार्यकरणस्वभाव उत्पन्नः, सोऽपि पश्चान्नष्टः, तृतीयक्षणे तृतीयकायकरणस्वभाव उत्पन्नः, अथ यद्यनया रीत्या प्रतिक्षणं स्वभावस्य हानिभवने तु, आत्मा स्वत एव क्षणिकः सिद्धो मवेदेव, स्वभावनाश एवाऽऽत्मनाशः कथ्यते यतः स्वभावं विना वस्तुनः सत्ता भवितुनाऽहति, यदि नित्य आन्मा योगपद्येन कार्य करोति इत्येवं कथनं भवेत्तदा प्रथमक्षण एव युगपद्-अक्रमेणाग्रेतनमर्वक्षणानामर्थक्रियायां तत्रैव पूर्णताऽऽपत्तिरागच्छेत , एवं क्रमेण वाऽक्रमेणाऽपि नित्याऽऽत्मनि, अर्थक्रियाकारित्वं न घटत एच, तत आत्मा क्षणिको मन्तव्यः ॥३१॥३२॥ - वुर्वेदुरूपविशेषिते क्षणिके न दोपः क्षणिके तु न दोषोऽस्मिन् , कुर्वपविशेषिते । ध्रुवे क्षणोत्थतृष्णाया निवृत्तेश्च गुणो महान् ॥ ३३ ॥ टीका:-ननु क्षणिक आत्मा प्रतिपलं किं कार्यकरणस्वभाववानस्ति १ इति चेनाऽऽत्मा कुद्रूपेण विशिष्टो यदा भवति तदेव कार्यमुत्पादयत्यन्यथा न, कुर्वद्रूपत्वं तु कार्यकरणशक्तिलक्षणं, यस्मिन् क्षणे ॥२५॥ Jan Education Intern For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy