SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२५॥ थात्मव्यवस्थितेस्त्याज्यं, ततश्चार्वाकदर्शनम् । पापाः किलैतदालापाः, सद्व्यापारविरोधिनः ॥३० ॥ टीका:-अनया रीत्या यदा शरीरतः कथश्चिद्भिन्नस्वरूपस्य स्वतन्त्रस्यात्मनोऽस्तित्वं सिद्धं भवति तदाऽऽत्मानमपहनुवानं चार्वाकदर्शनं त्यागयोग्यं भवत्येव मोक्षमाधकसदनुष्ठानविरोधिन एतस्य दर्शनस्य वासि स्वरूपतः पापानि पापानामालापानां श्रवणेऽपि पापं यत एतस्य फलानि, दुर्गतेः पापानुवन्धरूपान्येवेति ॥ ३० ॥ बौद्धमतस्य प्रतिपादनम् - 'ज्ञान क्षणाऽऽवलीरूपो, नित्यो नाऽऽत्मेति सौगताः। क्रमाक्रमाभ्यां नित्यत्वे, युज्यतेऽर्थक्रिया नहि ॥३१॥ स्वभावहानितोऽधौव्यं, क्रमेणार्थक्रियाकृतौ । अक्रमेण च तद्भावे, युगपत्सर्वसम्भवः ॥ ३२ ॥ टीकाः-बौद्धः शरीरादात्मा, स्वतन्त्रः पदार्थोऽस्तीति वयमवश्यं स्वीकुर्मः, परन्तु स आत्मा नित्योऽस्तीति न स्वीकुमः, यत आत्मा तु ज्ञानक्षणावलिस्वरूपोऽस्ति, अर्थात् ज्ञानक्षणसन्तानस्वरूप आत्माऽस्ति, ॥२५॥ Jain Education Intema Far Private & Personal use only Filww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy