________________
अध्यात्म सार
||२४९॥
टीका:-यत्पदं व्युत्पत्तिमाच शुद्धं भवति. तत्पदं मार्थ यथा घटादिकं, घटपदं शुद्धं समासरहितं व्युत्पत्तिमतव्युत्पत्तिविशिष्टं, यथा घटते-चेष्टते जलाहरणादिकायेंषु इति घटः, एतादृशी व्युत्पत्ति र्घटस्य प्रमिद्धाऽस्ति, ततो घटपदवाच्योऽथों यो घटः, स घटो जगत्पवश्यं विद्यते एवं अनयैव रीन्या जीवपदमध्यममम्तत्वेन शुद्धपदम् , किश्चाऽजीवज्जीवति जीविष्यतीति तम्य व्युत्पत्तिरपि भवति ततोजीवपदवाच्योऽथोंजीवः, जगति विद्यत एव, डित्थडवित्थादिपदानि, अममम्तपढत्वेन शुद्धानि सन्त्यपि तेषां काचिद् व्युत्पत्तिन भवति, अत एतानि यादृच्छिकानि पदान्युच्यन्ते. ततो डिन्थादिपदवाच्यः कश्चिदर्थो जगति न विद्यते. 'शशशङ्गपदं व्युत्पतिमत्पदमस्ति परन्तु समस्तत्वेन नास्ति शुद्धं अतस्तद्वाच्यभूतशशशजरूपोऽर्थोऽपि जगति न विद्यते, अर्थाद् यच्छुद्धं व्युत्पत्तिमच्च पदं भवति तद्वाच्योऽथों जगति विद्यमानएव जीवपदमपि तारशमेवाऽस्ति अतस्तद्वाच्योऽथों जगति विद्यमानः सिद्धयति. ननु जीवपदवाच्योऽर्थः शरीरं कथं न ? इति चेदच्यते "नदर्थव शरीरं नो पर्यायपदभेदतः' यदि शरीरमेवाऽऽन्मा स्यात्तदाऽभिधानकोशादी शरीरात्मानो द्वो शब्दो पर्यायवाचकत्वेन कथितौ स्याताम् , तथा तो पर्यायौ न स्तः, शरीरपर्यायवाचकाः शब्दा भिन्नाः, कथितास्तत्रात्मरूपशब्दो न वर्णितः, आत्मपर्यायवाचकशब्देषु न शरीरशब्द उपन्यत: २९ ॥
- चार्वाकदर्शनं सर्वथा त्याज्यम्
२४९॥
Jain Education Inteme
For Private & Personal use only
vww.jainelibrary.org