________________
अध्यात्म सारः
॥२४६॥
-संशयादेवाऽऽत्मनः सिद्धि:'सिद्धिः स्थागवादिवद्व्यक्ता, संशयादेव चाऽऽत्मनः ।
श्रसो खरविषाणादो, व्यस्तार्थविषयः पुनः ॥२६॥ टीका:-नियमः यस्य संशयस्तद्वस्तु क्वचिदपि विद्यत एव, दूरस्थे वृक्ष स्थाणुर्वा पुरुषो वेति सन्देह एनं विषयं साधयति यत पुरुषात्मकं वस्तु जगन्यवश्यं विद्यत एव, यदि पुरुषात्मकं वस्तु कुत्र चिन्न स्यात्तदा घृक्षे पुरुषविषयकः सन्देहो न स्यात् , एवंरीत्या 'आत्माऽस्ति किं नवा ? इति संदेहावस्थेवं कथयति आत्माऽऽत्मक वस्तु स्वतन्त्रतया कुत्राऽप्यवश्यमस्त्येव ननु जगति 'खरविषाणमस्ति नवा इति संशयस्य विषयः खरविषाणं ग्राम्य विषाणं जगति न विद्यते. संशयस्य विषयम्यास्तित्वं कथं नति चेदस्य संशयस्य विषयः खरस्य विषाणं नास्ति, परन्तु खरस्य मस्तके विषाणस्य समवायोऽस्ति यतः खविषाणमस्ति नवा ? इत्येतस्य प्रश्नस्याकार एवं भवति यत् 'खरस्य मस्तके विषाणस्य समवायोऽस्तिनवा'? एवमत्र विषाणस्य समवायविषयकः संदेहोऽस्ति, एतम्य सन्देहस्य विषयो विषाणस्य समवायो जगति गवादिमस्तके प्रसिद्धोऽस्त्येव 'खरविषाणमस्ति नवा ? एतादृशमंशयविषये खरविषाणरूपपदद्वयं ममम्तमस्ति, एतत्पदद्वयस्य योजकः समवाय इति व्यस्तं पदं, यतः समवायपदं पूर्वोक्तममासस्य पदत्वेन
Kath
॥२४६॥
Jain Education Intema
For Private & Personal use only
www.jainelibrary.org