SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ||२४५॥ टीक जी.श्च 'आगमेषु परस्पर विरोध दर्शयित्वाऽऽगमप्रमाणत आत्मा न सिद्धयतीति यत्कथितं तन्त्र युक्तम् , यतो जिनोक्तमागमवचनं रष्टेष्टार्थाऽविरोधि वर्तते, सर्वे दृष्टार्थाः-प्रत्यक्षादिसर्वप्रमाणे: प्राप्यार्थाः, इष्टार्थाः आगमवचनतः एतेऽर्थाः कथितास्त इष्टार्थाः, यद्वस्तु यारशं दृश्यते, तद्वस्तु तादृशमेव शास्त्रोक्तं भवेत्तदा तु वस्तु दृष्टं चेदं कथ्यते, दृष्टेष्टार्थाऽविरोधिन आगमस्य वक्ता सर्वज्ञोऽस्ति, एतेन वीतरागमर्वनाऽऽत्मा प्रत्यक्षेण दृष्टोऽप्यस्ति, एवमविरुद्धजिनागमप्रमाणतोऽप्यात्मा सिद्धयति ॥२४॥ -अभ्रान्तानां प्रवत्तयो न विफला:'अभ्रान्तानां च विफला नाऽऽमुष्मिक्यः प्रवृत्तयः । परवञ्चनहेतोः कः, स्वाऽऽत्मानमवसादयेत् ॥२५॥ टीकाः-यद् युष्माभिरुक्तं च 'आन्मादिमत्कवार्ताकारका धूर्ताः सन्तीति तत् सर्वथा मूलरहितं यत आत्मादितत्त्वप्रणेतारः सर्वज्ञा वीतरागा आसन , सर्वज्ञगतं ज्ञानमभ्रान्तं, अभ्रान्तज्ञानिनः सर्वज्ञाः स्वर्गापवर्गमाधिकाः परलोकहितसम्बद्धप्रवृतीरुपादिशन्ति, ताः प्रवृत्तयो विफला न भवन्ति, किच ये वीतरागास्ते परान वञ्चयितु कदाचिदपि न प्रवर्तन्ते, वीतरागता चेत्कथं माया, माया चेत्कथं वीतरागतां द्वयोमिथा महान् विराधः ॥२५॥ PA॥२४५|| in Edan in For Private & Personal Use Only sow.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy