________________
अध्यात्मसार:
॥२४॥
स्माद्गृह गवाक्ष ऋटिते मति, तेन गृहगवाक्षेण यदृश्यं चक्षुषा दृष्टं तस्य गृहिणम्तम्य स्मरणमवश्यं भवति, प्रकृतेऽप्येवं ज्ञेयम् , अथ चक्षरिन्द्रियाद्यात्मकमङ्गमेवाऽऽत्मा चेद् भवेत्तदा तस्याङ्गस्य नाशेऽपि तेनेन्द्रियेणाऽनुभृतस्य स्मरणं भवितु न शक्यते परन्तु स्मरणं तु भवत्येव तस्मात् तच्चक्षराद्यङ्गमपि नात्मा, आत्मा तु तदिन्द्रियव्यतिरिक्तः स्वतन्त्र आत्मपदार्थोऽम्तीति मन्तव्यमेव ॥ १९ ॥ -दोषस्य परिहारो दुर्निवार:
न दोषः कारणात्कार्ये, वासनासंक्रमाच्च ।।
भ्र गास्य स्मरणापत्ते-रम्बानुभवसक्रमात् ॥ २० ॥ टीका:-नन्वस्तु तावच भृताऽवयवानां विनाश::, परन्तु तेन यदनुभृतं तम्य या वासना, तस्मिन् पतिताऽऽसीत तस्या वामनायाः सङक्रमो देहे भवति, ततश्च देहम्वरूपस्यात्मन इन्द्रियादिनाऽनुभूतस्य पदार्थस्य स्मरणं भवति कारणभृताया वा सनायाः कार्ये सङक्रमोऽवश्यं भवति कारणमत्र चक्षहस्ताद्यङ्गं कार्यभृतं शरीरमिति चेन्न, एवं कथने तु कारणमस्ति माता, कार्य मम्ति गर्भस्थो घालः, अथ मात्रा चक्षुरादिना यदनुभृतं तस्य वासना तन्मातुः शरीरे पतिता; तद्वासनायाः कार्यस्वरूपे वाले सङ्क्रमो भविष्यति, यद्येवं भवेत्तदा मात्राऽनुभृतस्य वस्तुनः, स्मरणं गर्भस्थबालस्य भविष्यतीत्यापत्तिरागमिष्यति ततो वासनासक्रमकथनेन पूर्वोक्तदोषो दुर्निवारः ॥ २० ॥
॥२४॥
Jain Education Intem
Far Private & Personal use only
www.jainelibrary.org