SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अध्यात्मा सारः ॥२३८॥ भस्मीभूतेषु भूतेषु, वृथा प्रत्यागतिस्पृहा ॥१५॥ टीका:-तत्-तस्मात्कारणात् , ऐहिकाः कामाः इहलोकसम्बन्धिनः कामभोगा न त्याज्याः, 'कार्या नानागतस्पृहा'अनागताना = परलोकभाविकामभोगानां स्पृहा न कार्या, भस्मीभूतेषु भूतेषु वृथाप्रत्यागतिस्वृहा' भृतेषु पञ्चसु भस्मासाद् भृतेषु सत्सु, भूताऽव्यतिरिक्त आत्माऽपि भस्मीभूतः, पश्चान्मनुष्यादिसद्गतिप्राप्तिरूपप्रत्यागतिस्पृहा वृथा'मुधैव-निरर्थिकेति ॥ १५ ॥ -चार्वाकमतवण्डनम् तदेतदर्शनं मिथ्या, जीवः पत्यक्ष एव यत् ।। गुणानां संशयादीना, प्रत्यक्षाणामभेदतः ॥ १६ ॥ टीकाः-तदेतदर्शनं मिथ्या-तस्मादेतच्चाकदर्शनं सर्वथा मिथ्या 'जीवः प्रत्यक्ष एव' जीव आत्मनि प्रत्यक्ष एवाऽस्ति; यद्गुणानां संशयादीनां प्रत्यक्षाणाममेदतः' = यतो ये संशयादिज्ञानस्वरूपा गुणाः सन्ति, ते प्रत्यक्षा:-म्बसंवेदनप्रत्यक्षा(मानसप्रत्यक्षा) एच, गुणानान्तु गुणिनः कथंचिदभेदादान्मनो ज्ञानगुणप्रत्यक्ष तु गुणिरूप आत्माऽपि प्रत्यक्ष एवेति ॥ १६ ॥ -अहन्ता न शरीरस्य धर्म: ॥२३८॥ Jain Education Internal Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy