________________
अध्यात्मसार:
॥२३६॥
'मद्याऽङगेभ्यो मद व्यक्तिः प्रत्येकमसती यथा।
मिलितेभ्यो हि भूतेभ्यो, ज्ञानव्यक्तिस्तथा मता ॥ ११ ॥ टीकाः-यथा प्रत्येकमसती मद्याऽङ्गेभ्यो मदव्यक्तिर्भवति, तथा पृथिव्यादिभूतपञ्चके प्रत्येकममनी ज्ञानव्यक्ति मिलितेभ्यो भृतेम्यो भवतीति ॥ ११ ॥ -राजरकाऽऽदिवैचित्र्यं स्वभावजम् -
'राजरङ्काऽऽदिवैचित्र्यमपि नात्मबलाहितम् ।
स्वाभाविकस्य भेदस्य, ग्रावाऽऽदिष्वपि दर्शनात् ॥ १२ ॥ टीका:-अयं गजा, रङ्कोऽयमित्यादिवैचित्र्यं यद् दृश्यते तन्म कर्मवदात्मवलेन कृतं परन्तु यथा ग्रावाऽऽदिषु-कश्चित प्रम्तरः कोमलस्पर्शः कश्चित् कर्कशस्पर्शी दृश्यते, तत्र स्वभावकृतो भेद एव परिज्ञेयः, तथाऽत्रापि ज्ञेयः, कर्मणा नात्माऽनुमीयते अनुमानप्रमाणेन नात्मा सिद्धयति ॥ १२ ॥ - नागमप्रमाणेनाऽत्मसिद्धिः
'वाक्यैर्न गम्यते चात्मा, परस्परविरोधिभीः । दृष्टवान्न चकोऽप्येनं प्रमाणं यवचो भवेत् ॥ १३ ॥
॥२३६॥
Jain Education Intemala
For Private & Personal use only
www.jainelibrary.org