SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२३॥ 'प्राधान्याद् व्यवहारस्य, ततस्तच्छेदकारिणाम् । मिथ्यात्वरूपतैतेषां, पदानां परिकीतिी ॥ १ ॥ टीका:-एवं यदा दानादिशुद्धव्यवहाराणामपि स्वस्थाने प्राधान्यमस्तीति विषयः स्थिरीकृतः, तदा सद्दानादिव्यबहारच्छेदकारिणां पूर्वोक्तानामेकान्तेनाऽऽत्मा नास्तीत्यादीनां षण्णां पदाना मिथ्यास्वरूपता परिकीर्तिता-कथितेति ॥१॥ - चार्वाकमतप्रतिपादनम् - 'नास्त्येवाऽऽत्मेति चार्वाकः, प्रत्यक्षाऽनुपलम्भतः ।। श्रहंताव्यपदेशस्य, शरीरेणोपपत्तितः ॥ १० ॥ ___टीका:-आत्मा नास्त्येव, कथमिति चेत् , प्रत्यक्षप्रमाणेनानुपलभ्यमानत्वात् , यद्यस्ति चेत् प्रत्यक्षेणोपलभ्येत, चाक्षषप्रत्यक्षेणाऽऽत्मा न दृश्यते, अहं सुख्य दःखीत्यादियोऽनुभवो भवति, तत्राऽहम्पदवाच्यः कः पदार्थ इति चेदुच्यते अहंताव्यपदेशस्य शरीरेणोपपत्तितः'अहन्तारूपव्यवहारः, शरीरार्थेनोपपद्यते, अहमित्युक्ते शरीरमेव वेयमिति ॥ १०॥ - मिलितेभ्यो भूतेभ्यो ज्ञानाऽभिव्यक्ति: - ॥२३५॥ Jain Education Internet For Private & Personal use only rww.sainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy