________________
अध्यात्म
सार:
॥२३४|
स व्यवहारनयोः निश्चयार्थप्रतिपादनपरोऽस्तु तावत् , तथाऽपि श्रतज्ञानमपि विचार्यमाणं सद् वस्तुत आत्मैव यतो गुणस्तु गुणिनः स्वरूपमेव, किश्च तत्प्रतिपादनं निश्चये पर्यवस्यति, अन्ततो गत्वा व्यवहारो निश्चयपर्यवसायीत्यतो निश्चयो हि मुख्यो न व्यवहारः, व्यवहारनयवादी-यद्येवं व्यवहारनयं सर्वथा गौणरूपेणाऽपि न स्वीकुर्यात्तदा युष्मन्मते निश्चयनये प्राधान्यं कथमागच्छेत १ यतः प्राधान्यं गौणसापेक्षं, गौणश्चे. तदा तदपेक्षयेदं प्रधानं वाच्यम् , यदि व्यवहारो गौणोऽपि न भवेत्तदा निश्चयः कस्याऽपेक्षया प्रधानो वाच्यः स्यात् ? किन ज्ञानाऽऽत्मकनिश्चयनयस्य यावन्तः स्वार्थाः सन्ति ते सर्वे, शन्दात्मकव्यवहार नयस्य पदार्थाः, अनयैव रीत्या व्यवहारनयस्य यावन्तः स्वार्थाः सन्ति ते सर्वे निश्चयनयस्य परार्थाः एवमेकैकस्य स्वार्थाश्च परार्थास्तुल्या भवन्ति, अथ यो निश्चयनयः स्वस्थाने प्रधानो भवति, तत्र तदा व्यवहारनयः गौणो भवति, तथा व्यवहारनयोऽपि स्वस्थाने (निश्चयस्य स्वार्थः स्वार्थवत्त्वात्) प्रधानोभवति तत्र निश्चयश्च गौणो भवति, एवं द्वो नयो स्वस्वर यानेऽतुलबलवन्तौ भवतः, परस्थाने सर्वथा निर्बलो भातोऽतो निश्चय एवाऽस्ति, व्यवहारस्तु नास्त्येव, निश्चयः सर्वथा प्रधानोऽस्ति, व्यवहारः सर्वथा हेयः'एवं विधानि विधानानि सत्यरहितान्येवेति वक्तव्यम् । ५॥६॥७॥८॥
- दानादिशुडव्यवहारलोपे पूर्वोक्तनास्तित्वविशिष्टानां षण्णां पदाना मिथ्यात्व. रुपता
॥२३४॥
in Edanie
For Private & Personal use only
www.jainelibrary.org