SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ।।२३३|| Jain Education International प्राधान्यं व्यवहारे चेत्, तत्तेषां निश्वये कथम् । परार्थस्त्रार्थते तुल्ये, शब्दज्ञानात्मनोद्रयोः ॥ ८ ॥ " टीका:- 'येषां निश्रय एवेष्टः ' = निश्चयनयवादिनां निश्चयनय एवेष्टो - अभिमतः, व्यवहारो नाभिमतः, व्यवहारस्तु विप्राणां म्लेच्छभाषेव स्वार्थमात्रोपदेशनात् सङ्गतः 'व्यवहारनयस्तु निश्चयार्थमात्रस्योपदेशन - द्वारा सङ्गतः - उपयोगी स्यात् यथा ब्राह्मणो म्लेच्छभाषां न भाषेते' ति वचनाद्, विप्रा म्लेच्छभाषा न भाषन्ते तथाऽपि स्वभाषया संस्कृतभाषया सम्मुखस्थम्लेच्छव्यक्ति स्वाऽभिप्रायं विज्ञापयितुं न शक्नुवन्ति तदा स्वाभिप्रायं व्यञ्जयितु ं म्लेच्छभाषोपयोगं कुर्युः, एवं व्यवहारनयो, निश्वयार्थविज्ञापन परत्वेनोपयोगी भवेदिति स्वपक्षसमर्थनार्थनिश्चयवादी सोदाहरणं वदति यद् श्रुतकेवलीत्युक्ते कोऽर्थः ? निश्रयो वक्तीदं ‘यथा केवलमात्मानं जानानः श्रुतकेवली श्रुतेन" - श्रुतज्ञानबलेन यथा केवलं सम्पूर्ण, आत्मानं योजानाति स श्रुतकेबलीत्युच्यते अथ श्रुतकेवलिपदार्थस्य यदिदं शुद्धस्वरूपमस्ति तत्प्रतिपादयितुमशक्यम् यतः सम्पूर्ण एक आत्माऽनेन ज्ञात इति कया रीत्या कथयितुं शक्यते अत आत्मनस्तद्गुणस्वरूपश्रुतज्ञानस्य भेदं कृत्वा, व्यवहारनय एवं वदति य आत्मा सर्वश्रुतं जानाति स श्रुतकेवलीति कथ्यते, अथैतद्भेदपरं प्रतिपादनं तु शक्यम्, अर्थादनया रीत्या निश्रयार्थरूप केवलित्यप्रतिपादको व्यवहारो भवति, तस्मादेतावदपेक्षया व्यवहारनस्य प्राधान्यं मन्तव्यम्, निश्चयनयो वदति वस्तुतस्तु श्रुतज्ञानस्य भेदं कृत्वा तच्छ्रुतज्ञानगुणद्वारा For Private & Personal Use Only ॥२३३॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy