SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२७॥ ऽध्यात्मशुद्धिस्ततोयोगः । कर्मज्ञानभेदेन योगो द्विविधः । पुण्यलक्षणकर्मकारकःसद्गगात् कर्मयोगः । आवश्यकादिरागेण भागवतवाणीवात्सल्यतः स्वर्गकारकः कर्मयोगः ज्ञानयोगस्तु आत्मरतिलक्षणो मोक्षसाधकः । अत्र ज्ञानयोगे शुभक्रियाऽपि वैराग्याद् व्याक्षेपकारिका न । परेषां साक्षिपूर्वक साधूनामप्रमत्तानी क्रियाऽपि शुभा न नियता । ध्यानालम्बिनि ज्ञानयोगिनि हर्षशोकयो वकाशः । किया शुभा ज्ञानिनोऽसंगान्नैव ध्यानघातिनी । फलभेदादाचारक्रियाऽप्यस्य विभिद्यते । ध्यानार्था क्रिया सेयमात्मज्ञानाय कल्पते । स्थिरीभूतमनसः पुनश्चलत्वे स्थिर क्रियां कुयति । नित्यं संयमयोगेषु व्या पृताऽत्मा भवेद् यतिः । निश्चयव्यवहारदशास्थानां क्रियाव्यवस्था । ज्ञानयोगिनः श्रद्धामेधादियोगतः शुद्ध कर्मणोऽपि मुक्तिहेतुत्वमक्षतम् । कर्मयोगज्ञानयोगयोः सक्रिया शममर्यादा । योगारूढस्य लक्षणम् । कर्मज्ञानयोगयो गुणप्रधानमावेन दशाभेदः, चित्तशोधककर्मयोगाऽनन्तरं ज्ञानयोगस्यौचित्यं । पूर्व कर्मयोगः पश्चाच्च ज्ञानयोग इति क्रमो जिनोक्तोऽस्ति । तत्क्रमस्य कारणम् । अज्ञानिनां तु यत्कर्म न ततश्चित्तशुद्धिः । स्वरूपतः सावद्यत्वात् यज्ञयागादि कर्मयोगो वाङमात्ररूपः । वेदविहितमपि स्वरूपतः । सावद्यं कर्मचित्तशोधकं न भवति । सावधं कर्म नोपादेयं बुद्धि-विप्लवात् । कर्माऽप्याचरतो ज्ञातुर्मुक्तिभावोन हीयते । जैनमते कर्माकर्मविषयकभंगानां वैचित्र्यं । ज्ञानयोगी भोगै न लिप्यते जलजदलमिव जलेन । अनन्यपरमात साम्यात ज्ञानयोगीभवेन्मुनिः । विषयेषु समं रूपं विदन् वीतरागो ज्ञानी न लिप्यते । ज्ञानयोग्येवात्मवान् ज्ञानवान् वेदधर्मब्रममयः । विषमतायाधर्मब्रह्ममूलमज्ञानयोगतो नश्यति । ज्ञान. For Private & Personal use only ॥२७॥ Jan Education Intema www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy