________________
अध्यात्म
सारः
॥ २६ ॥
Jain Education Inter
शिवसाधने दृढैव सम्यक्त्वादि क्रियोपयुज्यते । तथाभव्यतया कर्मलाघवं ततः सम्यग्दर्शनादिगुणाः समुदिता ra मोक्ष कार्य जनयत्येव । भव क्षयं प्रति ज्ञानदर्शनचारित्राणि उपायाः समुदिताः । मिथ्यात्वजनकानि आत्मा नास्तीत्यादि षट्पदानि त्याज्यानि । आत्माऽस्तीत्यादि षट् पदानि तत्प्रतिलोमतः सम्यक्त्वस्य पदानि साध्यान्येव ॥ चतुर्दशोऽधिकारः = मिध्यात्वशामककदाग्रह त्यागो विधेयः । कदाग्रहाऽग्नौ - तवनिश्चयलता - प्रशान्तपुष्पाणि- हितोपदेश फलानि क्व १ । ज्ञानलवदुर्विदग्धाः कदाग्रहतः पंडितमानिनो वाणीरहस्य रहिता भवन्ति । कदाग्रहिभि मनिभिर्जडै वितण्डा पाण्डित्येन त्रिलोकी कदर्थ्यते । कुष्णपक्ष स्थायी कदाग्रहः । कदाग्रहाच्छन्नमतिः किं पापं न कुर्यात् ? । कदाग्रहमये चित्ते सद्भावविशुद्धबोधौ न तिष्ठतः । व्रतादि पिण्डशुद्धीनां फलं नाऽभृन्निहनवानां तत्र कदाग्रहस्याऽपराधः । कदाग्रहिण उपदेशाऽनर्हाः । गुरूकृपया लभ्यमानमर्थ कदाग्रही न गृह्णाति । योऽसद्ग्रहात् पामर संगतिं कुर्वन्ति तेषां न रतिबुधेषु । कदाग्रही यत्र युक्तिस्तत्र मतिं न यत्र च मतिस्तत्र युक्ति नियुक्ते । कदाग्रहिणो दीयमानं श्रुतं न प्रशस्यम् । कदाग्रहिमतेः श्रुतात्प्रदत्तादुभयोर्विनाशः । कदाग्रहिणे विशदागमार्थ दत्ते स खिद्यते । कदाग्रही महाविवेचकत्वाभिमानी भवति । कदाग्रहस्थानां विपरीत सृष्टि गुणानाम् । कदाग्रहिणां मित्रमनु मदुःखितं भवति । कदाग्रहाद् गुणा विनाशं यान्ति । कदाग्रहिणां स्वार्थः प्रियः, मृटेषु मैत्री ॥
पंचम प्रबन्धः = पंचदशोऽधिकारः, कदाग्रहत्यागतो मिध्यात्वत्यागस्ततः सम्यग्दर्शनं समक्त्ववतो
॥ २६ ॥
www.jainelibrary.org