________________
अध्यात्मसार:
॥२३॥
(६) तदुपायश्च नेति षष्ठम् मोक्षस्तु विद्यते, परन्तु तदुपायः-मोक्षस्योपायो नास्ति, कश्चिदपि हेतु विनानिर्हेतुकोऽकस्मादेव मोक्षो भवतीति माण्डलिकमतम् ।। २ ॥ इति मिथ्यात्वस्य षट् पदानीति. -आत्मा नास्तीत्यादिषट्पदः शुद्धव्यवहारविलङ्घनम्
'एतैर्यस्माद् भवेच्छुद्ध-व्यवहारविलवनम् ।
श्रयमेव च मिथ्यात्र-ध्वंसी सदुपदेशतः ॥ ३ ॥ टीका:-आत्मा नास्तीत्यादिभिः पूर्वोक्तैः षटपदेर्दानादिविषयकोपदेश-विषयकशुद्ध व्यवहारोलचनमापद्येत, यतो यद्यात्मादिर्नास्ति तदा दानादिका धर्माः किमर्थ ? तदुपदेशोऽपि किमर्थकः १ 'अयमेव च मिथ्यात्वध्वंसी सदुपदेशतः =अयमात्मैव सन्-अस्ति स नित्योऽस्ति, कर्मणःकर्ता, कर्मफलभोक्ता स निवृतः निवृ तेरुपायोऽस्तीति सद्रपपदानां योजना स्यात्तदा दानाद्याद्युपदेशादिशुद्धव्यवहारा युक्तियुक्ताः स्युः, ततो जीवाः शुद्धव्यवहारं पालयेयुः, ततस्ते मिथ्यात्वध्वंसिनो भवेयुः, इदमत्र हृदयम् आत्मा नास्तीत्यादिषट्पदानि, दानादिकशुद्धव्यवहारविध्वंसद्वारा मिथ्यात्वजनकानि, आत्माऽस्तीत्यादिसद्पषट्पदानि दानादिशुद्धव्यवहारोपपादनद्वारा मिथ्यात्वप्रध्वंसकानीति ॥ ३॥
- पूर्वोक्तशुद्धव्यवहारविलोपविषयं स्पष्टयति
।
in Edane
For Private & Personal use only
www.jainelibrary.org