________________
अध्यात्मसार
॥२३०॥
कारणान तन्मिथ्यात्वस्य परिहारार्थ महात्मना यतितव्यम्'–उत्तमाऽऽत्मना, सर्वथा प्रयत्नः कर्तव्यः ॥१॥ मिथ्यात्वस्य षस्थाना
'नास्ति नित्यो न कर्ता च, न भोक्ताऽऽत्मा न निव॒तः ।
तदुपायश्च नेत्याहु-मिथ्यात्वस्य पदानि षट् ॥ २ ॥ ___टीका:-(१) नास्ति जीव इति प्रथमं पदम् पश्चभिभू तेव्यतिरिक्तः, भवान्तरगामी, कोऽपि स्वतन्त्र आत्मा नास्तीति चार्वाकमतम् । (२) आत्मा नित्यो नेत्ति द्वितीयपदम् आत्मा त्वस्ति किन्तु नित्यो नास्ति क्षणिकोऽस्ति, इति बौद्धमतम. (३) आत्मा कर्ता नेति तृतीयं पदम् आत्माऽस्ति, नित्योऽस्ति, परन्तु कर्मकर्ता नास्तीति, सांख्यमतम्. (४) आत्मा भोक्ता नेति चतुर्थ पदम् नित्याऽऽत्मा नास्ति, कर्ताप्यस्ति, भोक्ता नास्ति यतः कार्य
कृत्वा क्षणान्तरे विनश्यतीति बौद्धमतम् , अथवा नित्याऽऽत्मा, कर्ता नास्ति, परन्तु भोक्ताऽपि
नास्ति, प्रकृतिवदात्मा कर्ता, भोक्ता तु भवितु नाहनीति साङ्ख्यमतम् . (५) 'आत्मा न निवृतः' इति पञ्चमं पदम् आत्मा, कर्मणा न बध्यते, ततः का वार्ता मोक्षस्य ? अथवा
गगादिस्वरूपोऽयमात्माऽस्ति, आत्मा, नित्योऽस्ति, ततो रागादयोऽपि नित्याः, अतो रागादित आत्मनो मोक्षो नास्तीति याज्ञिकमतम् ।
X॥२३०॥
Jain Education International
Far Private & Personal use only
www.jainelibrary.org