________________
वन्यात्मसार:
॥२२९॥
सम्यक्त्वस्थिरताप्राप्तिवर्णनम्
शमसम्वेगनिदा नुकम्पाभिः परिष्कृतम् ।
दधतामेतदच्छिन्न, सम्यकत्वं स्थिरतां व्रजेत् ॥ ५८ ॥ टीकाः-शमसम्बेगनिदानुकम्पारूप: कार्यैः समलङ्कृतं, 'एतदास्तिक्यमच्छिन्नं =अविच्छेदेन- र सातत्येनाऽऽस्तिक्यं दधता जनानां सम्यक्त्वं स्थिरतां ब्रजेत्-स्थिरं भवेदर्थात् , शमसम्वेग--निवेदानुकम्पाभिः सहितमास्तिक्यं यदि सततं वर्तमानं तदा सम्यक्त्वं निश्चलं भवति नाऽन्यथेति भावः॥ ५८ ।।
इत्याचार्य श्रीमद्विजयलब्धिमूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकमूरीश्वरपट्टधरभद्र करमूरिणा कृतायाभध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां सम्यक्त्वनामको द्वादशोऽधिकारः समाप्तः ॥३८३॥
-अथ मिथ्यात्वत्यागनामकस्त्रयोदशोऽधिकार:
-मिथ्यात्वत्याग:मिथ्यात्वत्यागतः शुद्धं, सम्यकत्वं जायतेऽङ्गिनाम् ।
अतस्तत्परिहाराय, यतितव्यं महात्मना ॥ १ ॥ टीका:-जीवानां मिथ्यात्वस्य त्यागतः शुद्धं सम्यक्त्वं जायते-भवति, अतस्तत्परिहाराय अस्मात
॥२२॥
lain Education Inter
Far Private & Personal use only
ww.jainelibrary.org