SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥ २२७॥ Jain Education Internationa नन्तरमहिंसापालनतः, तस्याः फलमपि विपाकमानयेदनन्तरं पूर्वकृतहिंसायाः फलोदयः स्यात्तदा हिंसायाः फलं कालान्तरे आगतं, प्रतिपक्षस्यान्तराले व्यवधानं न स्यात्तदा तस्या हिंसायाः फलं प्रागागच्छेत् इदं वस्त्वहिंसायामपि ज्ञेयम्, अन्यत्कारणमप्यस्ति यद्, हिंसाऽऽदेः कर्मबन्धाऽवसरे बध्यमानरसोऽत्यन्तोग्रतावान्न भवेचदा कालान्तरे फलं दद्यात् ।। ५४ ॥ - जिन पूजाऽऽदिक्रियाहेतुतो जायमाना हिंसाऽप्यहिंसा'हिंसाऽप्युत्तरकालीन - विशिष्टगुणसङ्क्रमात् । त्यक्ताऽविध्यनुवन्धत्वा- दहिंसैवाऽतिभक्तितः ।। ५५ । टीका:-जिन पूजादिक्रियायाः कारणेन जायमाना या पुष्पादिजीवहिंसाऽस्ति, तस्यां स्वरूपतो जीवहिंसायां सत्यामपि वस्तुतस्तु साऽहिंसैवाऽस्ति यत एतस्या हिंसाया अनन्तरं जिनेश्वरदेवानामात्यन्तिकमहाभक्त्या यापूर्वी पूजा भवति, तेन कारणेन, भक्तेरुच्छलत्तरङ्गे जायमानोऽविधिरपि निरनुबन्धोअशुभ कर्मानुत्पादको भवति, अतोऽहिंसा कथ्यते, अतिभक्तितो 'हिंसाऽप्युत्तरकालीन विशिष्टगुणसङ्क्रमादहिंसैव' = तस्मादतिभक्त आत्मनि शुद्धसम्यक्त्वादिविशिष्ट गुणसङ्क्रमणतो हिंसाऽप्य हिंसा फलं ददात्येवेति ॥५५॥ - एवंरीत्या भङ्गशतभेदोपेताऽहिंसावर्णनं यत्र तजिनशासनं प्रमाणम् - For Private & Personal Use Only ॥२२७॥ •ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy