________________
अध्यात्म-1 सार
॥२२५॥
अग्रेतनभवे तिर्यक्त्वनरकत्वादिदुर्गतिमर्पयति, एष मर्वोऽशुभगतेग्नुवन्धस्तेषामहिंसातः प्राप्तः, अशुभाऽनुबन्धषातिनी साऽहिंसा, हिसैव नास्ति परन्तु महती डिमेवाऽस्ति ॥ ५० ॥ -अप्रमत्तसाधूनां हिंसाऽप्यहिंसाऽनुवन्धिनी
'साधूनामप्रमत्तानां. सा चाहिंसाऽनुबन्धिनी ।
हिंसाऽनुबन्धविच्छेदाद गुणोत्कर्षो यतस्ततः॥ ५१ ॥ टीका:-'साधनामप्रमत्तानां सा चाऽहिंसाऽनुबन्धिनी' प्रमादरहिताना सोपयोगयतनावता नद्यतारादिक्रियायां या हिंसाऽस्ति साऽहिंसाया अनुबन्धं कारयति, हिंसाऽनुबन्धविच्छेदाद् गुणोत्कर्षो यतस्ततः तेषां तयाऽहिंसया हिंसाऽनुबन्धस्य विच्छेदो भवति यतस्तयाऽहिंसया गुणस्योत्कर्षोभवतीति ॥५१॥ -मुग्धानां सा हिंसा कदाचिदपि, अहिंसाऽनुबन्धिनी न भवति
मुग्धानामियमज्ञत्वात् , साऽनुबन्धा न कहिंचित् ।
ज्ञानोदेकाप्रमादाभ्या-मस्या यदनुबन्धनम् ॥ ५२ ॥ टीका:-ज्ञानोद्रेकाप्रमादाभ्यामस्या यदनुवन्धनम् हिंसाऽप्यहिंसाऽनुबन्धिनी तदैव भवेद् यदा नया हिंसया सह विशिष्टकोटिकं ज्ञानं प्रमादाभावश्च युज्येयाता: मुग्धानामियमज्ञत्वात साऽनुबन्धा न कहि
॥२२५॥
Jain Education Intemas
Far Private & Personal use only
www.jainelibrary.org