________________
अध्यात्मसारः
1॥२२३।।
शासन एव शुद्धाहिंसासम्भवः साधितः, अहिंसाया अनुबन्धादिसंशुद्धिरत्रैव-श्रीजैनशासन एव वास्तवीसत्या, नाऽन्यत्र ॥४६॥
- सम्यगदृष्ट महात्मनो ज्ञानयोगेन हिंसा न हिंसाऽनुवन्धिी'हिंसाया ज्ञानयोगेन, सम्यगदृष्टे महात्मनः ।
तप्तलोहपदन्यास-तुल्याया नाऽनुबन्धनम् ॥४७॥ टीका:-ये सम्यगदृष्टयो ज्ञानयोगेन महात्मानः श्रावकाद्याः सन्ति ते संसारसत्कं यत् किश्चिद्गृहनिर्माणादि कार्य कुर्वन्ति, तद् भृशं दुःखितहृदयेन, यद्यत्यन्तमावश्यकं तदा तप्तलोहे पादस्थापन बत् , अन्तरेच्छां विना कृताया हिंसाया अनुबन्धो (अशुभकर्मपरम्परा) न भवति, दुष्टाशयरूपहिंसाऽत्र नास्ति, परपीडाकरणपरदेहविनाशरूपहिंसाद्वयमस्ति ॥४७॥
-यतनाभक्तिशालिनां जिनपूजाऽऽदिकर्मणि अहिंसाया अनुषन्धः'सतामस्याश्च कस्याश्चिद्, यतनाभक्तिशालिनाम् ।
अनुबन्धो ह्यहिंसाया, जिनपूजादिकर्मणि ॥४॥ टीका:-जीवान प्रति यतनावतां जिनेश्वरान्प्रति भक्तिभावशालिना 'सतां' सम्यग्दृशामन्तरात्मनां
॥२२३॥
Jain Education Interational
Far Private & Personal use only
www.jainelibrary.org