SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२२१॥ Jain Education International यद् - दुष्टाशयनिमित्तता 9 'हिंस्य कर्मविपाके 1 हिंसकत्वं न तेनेदं वैद्यस्य स्यादरिपोरिव ॥४३॥ टीका:-यदा मंत्र : ( हिंस्यस्य ) आयुष्कर्मणोऽन्तिमदलिकानामुदयःस्यात्तदा हिंसकम्य मनसि 'अहमेतं हन्या 'मिति दुष्टाशय उत्पद्यते ततश्च तं हिनस्ति, अस्यां हिंसायां मुख्यं कारणं मरणोन्मुखव्यक्तेः कर्मोदयोsस्तु परन्तु तस्यां हिंमायां हिंसकव्यक्ति दुष्टाशयद्वारा निमित्तकारणमवश्यं भवति, एनां हिंसा प्रति यो निमित्तभावः स एव हिंसकतेति कथ्यते, हिंसायां निमित्तभूतो जीवो हिंसकः कथ्यते, यदैवं दुष्टाशयद्वारा जायमानहिंसायां निमित्तभूतो हिंसक उच्यतेऽत एवं रिपुः - शत्रु हिंसकः कथ्यते परन्तु तद्वद् वैद्यो हिंसको न कथ्यते, तद् वैद्यद्वारा कस्यचिदेकस्य जनस्य हिंसाऽपि भवेत्तथापि वैद्यराजस्य मनसि तद् व्यक्ते हिंसां कर्त्तु दुष्टाभिप्रायो नास्ति, अर्थाद् दुष्टाशयप्रयुक्तहिंसायां स निमित्तकारणं न भवति ॥४३॥ - श्री जैनशासन एव हिंसानिवृत्तिरूपाऽहिंसा कथं घटते !'इत्थं सदुपदेशादेस्तन्निवृत्तिरपि स्फुटा । सोपक्रमस्य पापस्य नाशात् स्वाशयवृद्धितः ॥ ४४ ॥ टीका:- अथाऽत्राऽहिंसां साधयति, तथाहि आत्मा हि परिणामी - पर्यायवानस्ति, अतस्तस्य 'हिंसा' For Private & Personal Use Only ॥२२९॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy