SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२१९॥ विनश्यदेव तिष्ठति, तस्मादात्मा नित्योऽप्यस्ति, अर्थादात्मनि कस्यचिद् हिंसाक्रियापर्याय उत्पद्यते (आना हिनस्ति कश्चित्) 'आत्मा हन्यते केनचित्'-आत्मनि केनचित् घातनद्वारा नाशपर्यायोऽप्युत्पद्यते, किञ्चेषोऽनित्याऽऽत्मा, हिंसाऽऽदिजन्यानि तत्तन्नकादिदुर्गत्यादिफलान्यधिगच्छति-प्राप्नोति ॥३९॥ -नित्यानित्यवादे विशिष्टानुभव एव साक्षी'इह अनुभवः साक्षी, व्यावृत्त्यन्वयगोचरः । एकान्तपक्षपातिन्यो, युक्तयस्तु मिथो हताः ॥१०॥ टीकाः-अस्मिन् पूर्वकथितविषये विशिष्ट-व्यावृत्त्यन्वयविषयकोऽनुभवः साक्षी-साक्षाद्रष्टा, . अर्थात् प्रत्यक्षेणैवैवं दृश्यते हि भूतकालाऽवच्छेदेनैक आत्मा, बालपर्यायवानासीत , सोऽद्य बालपर्यायान्मुक्तो भूत्वा (व्यावृत्या) युवपर्यायवान् वर्तते, एवमत्र बालपर्यायवत्त्वविशिष्टस्यात्मनो नाशो दृश्यते, तथाप्युभयावस्थायां, आत्मद्रव्यन्त्वस्त्येव, (अन्वयः) तस्मादात्मनस्तु नाशो न दृश्यते, एकान्तपक्षपातिन्यो युक्तयस्तु मिथः-परस्परं हताः-असङ्गता भृत्वा हता इव हताः ॥४०॥ -जैनदर्शने हिंसा काल्पनिको न परन्तु सहेतुकाऽस्ति'पीडाकर्तृत्वतो देह-व्यापत्त्या दुष्टभावतः । ॥२१९॥ त्रिधा हिंसाऽऽगमे प्रोक्ता, न हीथमपहेतुका ॥४१॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy