________________
अध्यात्मसारः
॥२१५॥
चेत्तदा तन्मते हिंसानामकः पदार्थः कुत्र स्थितः ? यतो न कश्चित्कश्चिन्नाशयितु शक्तः, कथमिति चेद् , वस्तु स्वयं विनाशप्रकृतिकमिति ॥ ३३॥ __ सन्तानविचित्रताया जनको हिंसको न भवत्येव
'न च सन्तानभेदस्य, जनको हिंसको भवेत् ।
सांवृतत्वादजन्यत्वाद् , भावत्वनियतं हि तत् ॥ ३४ ॥ टीकाः-(पूर्वपक्षः बौद्धः) पदार्थमात्रं हि स्वतः सततमुत्पादविनाशशालि, एक रीत्या घटादिद्रव्यस्य सजातीयवस्तुनि 'घटः, घटः, घटः, इत्यादिरूपज्ञानधारा प्रचलति, यदा दण्डादिना स हन्यते, तदा विजातीयठिकरिका, इत्यादिरूपा ज्ञानधारा प्रचलति, घटादिविषयकसजातीयज्ञानधारा त्रुटयति, तादृशविजातीयमन्तानविशेष य उत्पादयति स हिंसक इत्युच्यतेऽर्थात् सदृशधाराभेदको विसदृशधाराजनक एव हिंसक उच्यते, तादृशविजातीयधारोत्पाद एव हिंसेत्यर्थः ।
(उत्तरपक्षः) नेदं कथनं सम्यक् तथाहि-सन्तानभेदस्तु सांवृतो (काल्पनिकः) भवति किञ्चैको लुब्धकः सूकरं हिनस्ति, स सूकरो मृत्वा मनुष्यो भवति, युष्मन्मत एवं ज्ञाप्यते च लुब्धकः सूकरस्य सजातीयधाराया मेदं कृत्वा, मनुष्यविजातीयधारामुत्पादयत्यतो लुब्धको हिंसको जातः, परन्तु लुब्धकादिः सूकरस्य धारां वोटयित्वा, मनुष्यस्य विजातीयधारामुत्पादयितुं न शक्नोति, यतो भावात्मकं
| ॥२१॥
k
Jain Education International
For Private & Personal use only
www.jainelibrary.org.