________________
अध्यात्म सारः
॥२१४॥
आत्मनो निष्क्रियत्वेन हननाद्यभावेन हिंसाचनुपपत्तिः
निष्कियोऽसौ ततो हन्ति, हन्यते वा न जातुचित् ।
कश्चित्केनचिदित्येवं न हिंसाऽस्योपपद्यते ॥३२ ॥ टीका:-आत्मनो निष्क्रियत्वेन कश्चिन्न हन्ति, स जातुचिकेनचिन्न हन्यते, इत्यात्मनि हिंसाया अनुपपत्तिः, युष्मन्मते हिंसाऽनुपपत्तावहिंसाऽनुपपत्या, सायशास्त्रोक्ताऽहिंसा नास्ति शुद्धाऽहिंसा, इत्येकान्तनित्यात्मवादे शुद्धाया अहिंसाया असम्भवो दृश्यते ॥ ३२ ॥ एकान्ताऽनित्यात्मवादिौडमतेऽपि शहाहिंसाया असम्भव:
अनित्येकान्तपक्षेपि, हिंसादीनामसम्भवः ।
नाशहेतोरयोगेन, क्षणिकत्वस्य साधनात् ॥ ३३ ॥ टीका:-शून्यवादी म्वमतं पुष्णन वदति केनचिदपरेण वस्तु नैकं वस्तु न स्यादीत्येतन्मतं न वास्तविक यथा दण्डेन घटध्वंसो जायत इत्येवं वदतः प्रति बौद्धाः पृच्छन्ति, किं घटध्वंसो घटाद्भिन्नो वाऽभिन्नः ! यदि भिन्नस्तदा घटस्तदवस्थ एव भवेत् यतो घटो भिन्नो, घटनाशश्च भिन्नः, यद्यभिन्नस्तदा घटधंसो घटस्वरूप. एव जात एवमुभयथा दण्डेन घटध्वंमोऽसम्भवी अर्थाद् घटादिमावाः स्वभावत उत्पद्यन्ते, उत्पादाऽनन्तरं च विनश्यन्ति, एवं प्रतिक्षणमुत्पादविनाशधारा प्रचलति, अर्थादनित्यवादपक्षस्यैवं मन्तव्यमस्ति
॥२१४॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org