________________
अध्यात्म
सारः
॥२११॥
Jain Education Internatio
एकान्तनिष्क्रयत्वेनाऽऽत्मनो हननाद्यभावेन हिंसादेरनुपपत्तिश्रदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः ।
इत्थं जन्मोपपत्तिश्चेन्न तद्योगाऽविवेचनात् ॥ २१ ॥
टीकाः एकान्तेनात्मा, निष्क्रियः स्यात्तदा तस्य शरीरेण सम्बन्धोऽनुपपन्नो भवेत् (१) यदि विभुश्वेत्तदा देवादिगतौ जन्मादिप्रपञ्चस्यानुपपत्तिः, इत्यापत्तिद्वयं निवारणायैवं ब्रूमः, (२) आत्मनः कूटस्थ - नित्यत्वेन तत्र क्रियाया अभावः स्यात्तथापि आत्मनि, अदृष्टविशेषो विद्यते एव, अनेनाऽदृष्टविशेषे या तत्तस्परमाणुषु क्रिया भवत्येव यत्परमारशूनां शरीरं तत्तदात्मना सुखादिभोगाय गृह्यते, तत्परमाणुषु क्रियोत्पद्यते, ततस्ते परमाणवस्तदात्मना सह सम्बध्य तस्य शरीरं भवति एवमात्मनि क्रियाया असम्भवतोऽप्यन्यतरपरमाणोः क्रियासम्भवतः शरीरेण सहात्मनः सम्बन्ध उत्पद्यते (३) एवं भवनेन चातुर्गतिकसंसारे तज्जन्मोपपत्तिर्भविष्यति आत्मनो विभुत्वेनोर्ध्वलोकादौ सर्वत्र व्याप्तिरस्ति, तत्राप्यदृष्टविशेषे या देवादिशरीर योग्यपरमाणुभिः संयोगो भविष्यति, अत एवं कथ्यते, यदाऽऽत्मा देवत्वेनोत्पन्न एवं रीत्या मानवीय शरीरारम्भ परमाणव विभोरात्मतो विभक्तास्तदैवं कथ्यते, एष आत्मा मानवत्वेन मृतः, एवमात्मनो विभुत्वेऽवाधिते जन्माद्युपपत्तिरपि जायते ।
( उत्तरपक्षः) एवं रीत्याऽऽत्मना सह देहस्य यः संयोगः कथितः, तत्संयोगस्य विवेचनमशक्यमेव,
For Private & Personal Use Only
।।२११॥
www.jainelibrary.org