SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२१ एकान्त नित्यत्वे शरीरेणाऽपि सम्बन्धोऽसम्भवी, आत्मनो विभुत्वे संसाराभावः शरीरेणापि सम्बन्धो, नित्यत्वेऽस्य न सम्भवी । विभुत्वे न च संसारः, कल्पितः स्यादसंशयम् ॥ २८ ॥ ___टीका:-आस्तां दूरे धनादिना सह सम्बन्धः, परन्तु 'अस्य' आत्मन एकान्तनित्यत्वे शरीरेण सह सम्बन्धोऽसम्भवी, त्यागाऽत्यागरूपविकल्पद्वयेन शरीरसम्बन्धोऽसम्भवी, प्रथमविकल्पे पूर्वरूपत्यागक्रिया कर्तुं शक्तश्चेदेकान्तनित्यता कथं ? यत एकान्तनित्ये तु क्रियामात्रस्याऽसम्भवः, द्वितीयविकल्षे पूर्वरूपत्यागं विना शरीरेण सह सम्बन्धश्चेत् पूर्वस्वभावेन सह विरोधस्योपस्थिते शरीरेण सह सम्बन्धोऽसम्भवी, एवमात्मन एकान्तनित्यत्वे शरीरेण सम्बन्धोऽसम्भवी, पूर्वपक्षः यथाऽऽत्मैकान्तनित्यस्तथा विभुरप्येव, यः सर्वगो भवति तस्यामकस्थानात् स्थानान्तरेण सह सम्बन्धस्य प्रश्नोऽपि कथं ? एवं क्रियां विनैवात्मन शरीरेण सह सम्बन्धः सम्भवी. उत्तरपक्षः यद्येवमेकान्तनित्यात्मनो विभुत्वे संसारामावाऽऽपत्तिः, यद्यात्मनः सर्वगतत्वे तु तस्य परलोकगमनं कुतः, परलोकगमनमेव तु संसारः, तदभाचे तदभावः, चातुर्गतिकसंसारस्वीकारहेतुः कल्पित एव संसारो मन्तव्यः स्यात् , निरुपचरितसंसारस्य सिद्धयभावः स्यात् , एवमनेकापत्तिपातत आत्मन एकान्तनित्यत्वं विभुत्वं च सर्वथा युक्तिविरहितं विज्ञेयमिति ॥२८॥ २१०।। Jain Education Interation For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy