SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२०९।। Jain Education Internat टीका:- पूर्वपसः - पश्चविंशतितश्वमध्ये बुद्धिनामकं यज्जडतश्वमस्ति तद्बुद्धौ दुखोत्पादरूपो हिंसापदार्थ उपपद्यते उत्तरपक्षः - नेदमुचितं तथाहि - युष्मन्मते पुरुषे बुद्धेः प्रतिविम्वं पतति, ततश्च पुरुष एवं जानाति 'अहं बुद्धिश्चैकरूपी स्तः' एवं स्थिते बुद्धौ यो दुःखोत्पादो जातः स पुरुषस्य स्वस्मिन्नैवभासते, एवं रीत्या पुरुषे दुःखोत्पादरूपा हिंसा साक्षात न घटते परन्तु बुद्धेः प्रतिविम्बोदयकारणेन जायमानमेाऽग्रहणरूपभ्रम हेतुना दुःखोत्पादरूपहिंसापर्यायो बुद्धेः पुरुषे ज्ञायते, अर्थात् वस्तुतस्तु हिंसा पुरुषस्येति न सिद्धं, अन्यच्च पुरुषे बुद्धिगतदुः खोत्पादात्मक हिंसाया आरोपः कृतो यःस उपचारः, हिंसारूपवस्तुस्वरूपनिर्णये नोपयुज्यते ॥२६॥ हिंसापदं नाशर्यायवाचकं जीवस्यैकान्तनित्यत्वे जीवे न घटते, अनुभवबाधक त्वात् न च हिंसापदं नाश- पर्यायं कथमप्यहो । जीवस्यैकान्तनित्यत्वेऽनुभवाबाधकं भवेत् ॥२७॥ टीका:- किश्व हिंसापदं तु नाशपर्यायवाचकं पदं, यद्यात्यैकान्तनित्य एव स्यात्तदा तत्र केनचित्कारन तस्य नाशपर्याय उत्पत्तुम शक्यस्तत आत्मनि हिंसा न घटते सर्वथा तथापि युष्माभिरेकान्तनित्य आत्मनि हिंसादं प्रयुज्यते, तदनुभवबाधकत्वेनै कान्तनित्यस्यात्मनो नाशोऽसंभवीति ॥२७॥ For Private & Personal Use Only ॥२०९॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy