SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२०८॥ Jain Education Internation कल्पनायां वस्तु आत्मनो हिंसा नास्ति तथापि हिंसापदार्थ उपपद्यते, ततस्तादृशहिंसाऽकरणरूपाऽहिं साधर्मोऽप्यस्मन्मते उपपन्नो भवति । उत्तरपक्षः = नेदं सम्यग् युष्माभिश्वरममनः संयोगध्वंसरूपा या हिंसा कथिता, साऽर्थसमाजतः = द्वितीयसामग्रीजः सिद्ध्यति, अर्थादेतच्चरममनः संयोगतो ज्ञानमुत्पद्यते, तथापि तज्जन्यसंस्कार तो भाविनि न स्मरणं न जायते, तत्कारणं तुद्बोधकाऽभावोऽस्ति, किञ्चैष मनःसंयोगध्वंसो जातः सोऽपि भिन्नभिन्नसंयोगानामिव द्वितीयक्षणे स्वत एव नश्यति एवं च तादृशध्वंसरूपा हिंसा यदि हिंसात्वेन गण्यते तदा तादृशहिंसानिरुक्तार्थसमाजतः सिद्धा भवत्यतः कश्चिदन्यस्तु जीवो हिंसको न भवत्येवाऽर्थात् कश्चिद् हिंसको न कथ्यते; एवं च यदि हिंसैव न तिष्ठेत्तदाऽहिंसाधर्मकथनेन किं प्रयोजनम् १ इदमत्र हृदयं, कञ्चिदन्यजीवं बिना स्वत एवार्थसमाजतश्चरममनः संयोगध्वंसरूपा हिंसा सिद्धयति, ततस्तादृशध्वं प्रकर्त्ता कश्चिद् व्यक्तिरूपो जीवो न सिद्धयत्येवेति ||२५|| साङ्ख्यमताऽभिमतबुद्धिगतदुःखोत्पादहिंसा पदार्थस्य खण्डनम् नेति बुद्धिगता दुखोत्पादरूपेयमौचितीम् । पुंसि भेदाग्रहात्तस्याः परमार्थाऽव्यवस्थितेः ||२६|| For Private & Personal Use Only 1120611 www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy